________________
३९९
हरिवंशपुराणं।
त्रिंशः सर्गः। अश्वरूपधरेणासावेकदा सूर्पकारिणा । हरता नभसः क्षिप्रो गंगायामपतद् यदुः ॥४२॥ स तामुत्तीर्य संप्राप्तस्तापसाश्रममत्र च । निरीक्ष्योन्मादिनीं नारी नरास्थिमयशेखरां ॥ ४३ ।। पप्रच्छ तापसं कंचित्कस्येयं युवतिर्वरा । परिभ्रमति विभ्रांता महोन्मादवशा क्शा ॥४४॥ तस्मै सोऽकथयद् राज्ञो जरासंघस्य देहजा । नाम्ना केतुमतीयं च जितशत्रुनृपप्रिया ॥४५॥ मंत्रवादिपरिव्राजा वराकी स्ववशीकृता । हतस्यास्यास्थिमालां च मालीकृत्याटति क्षितिं ॥४६॥ इत्याकण्ये कृपायुक्तो महामंत्रप्रभावतः । आवेशपूर्वकं तस्यास चक्रे ग्रहनिग्रहं ॥४७॥ सौरिस्तदा नियुक्तैस्तु जरासंधस्य मानवैः । पुरं राजगृहं नीतः परिवार्योपकार्यपि ॥४८॥ तानवोचदसौ राज्ञः कोऽपराधो मया कृतः। ब्रूत मे येन नीयेयं तद्राजपुरुषाः रुषा ॥४९॥ इत्युक्ता इत्यवोचस्ते यो राजदुहितुर्ग्रहं । व्युदस्यति भवेत्सोऽत्र राजारिजनकः किल ॥५०॥ इत्यावेद्य वधस्थानं नीतो नीचैर्नरैर्वृतः । खमुत्क्षिप्यापनीतः प्राक् केनचित्खचरेण सः ॥५१।। उक्तश्च वीर ! विद्धि त्वं प्रभावत्याः पितामहं । मां भगीरथनामानं त्वन्मनोरथपूरकं ॥५२॥ प्रभावतीसमीपं त्वं मया नीतिज्ञ ! नीयसे । इति प्रियवचोवाची निनाय खचराचलं ॥५३।। प्राप्य गंधसमृद्धं च नगरं नगमूर्धनि । प्रवेशितो महाभूत्या विद्याधरजनैर्वृतः ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org