________________
हरिवंशपुराणं।
३९६
त्रिंशः सर्गः। अप्राक्षीत पुंडरीकाक्षि ! का त्वमत्रेत्यसौ हि सा ज्ञास्यसे हि कुमारेति तमाहूय विनिर्ययौ ॥३॥ व्यपनीय प्रियालेषमेषोऽनुपदवीमयात् । रम्यहऱ्यातलासीना हेतुं साह निजागमे ॥४॥ आर्यपुत्र ! शृणु श्रीमान् समाधाय निजं मनः । वचो मदीयमप्राप्य वस्तुप्रापणकारणं ।।५।। इहास्ति दक्षिणश्रेण्यां देशे गांधारनामनि । पुरं गंधसमृद्धाख्यं गंधाराख्यस्तु तत्पतिः ॥६॥ पृथिवीति महादेवी पथिवीवास्य वल्लभा । सुता प्रभावती तस्य श्रीरिवाहं प्रभावती ॥७॥ गता मानसवेगस्य स्वर्णनाभपुरं परं । ज्ञात्वांगारवती वार्ता दुहितुः पृष्टवत्यहं ॥८॥ प्रवृत्तिवेगवत्यास्तु तत्सखीभिमेमोदिता । संगमो यदुचंद्रेण चित्राया इव च त्वया ॥९॥ तत्रैव नगरे या सा शुद्धशीलविभूषणा । त्वन्नामग्रहणाहारा सोमश्रीरवतिष्ठते ॥१०॥ त्वद्वियोगमहादुःखपांडुगंडलकांतया । कांतया प्रहिता तेऽहं संदेशप्रापिणी तया ॥११॥ शीलप्राकाररक्षाऽहमलंघ्यानुनयैररेः। आर्यपुत्रावतिष्ठेयं शत्रुस्थाने कियचिरं ॥१२॥ रक्षिता शत्रुमात्राहं पुत्रतर्जनशीलया । प्राणिनी प्राणनाथोऽतो मोचनीया लघु त्वया ॥१३॥ अविरामवियोगाया मा कदाचिदिहैव मे । स्याद्विपत्तिरतो वीर ! मोपेक्षिष्ठाः कठोरधीः ॥१४॥ साश्रलोचनयाजस्रमिति संदिष्टमिष्टया । निवेद्याऽसीत्कृतार्थाऽहं कृत्यं पत्यौ त्वयि स्थितं ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org