SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ३९४ एकोनत्रिंशः सर्गः। देवीत्वं च निजं येन स राजात्मजमग्रहीत् । वर्धमानस्य तस्याहं पुत्रस्नेहेन मोहिनी ॥१५॥ जातानुपालिनी नित्यं राज्ञश्चेप्सितदायिनी । एणीपुत्रमसौ राजा स्वराज्ये न्यस्य पंडितः ॥५६॥ प्रवज्य मुनिमार्गस्थः स्वर्गलोकमवाप्तवान् । जाता च तनया पश्चादेणीपुत्रस्य रूपिणी ॥५७।। प्रियंगुसुंदरीनाम्ना प्रियंगुश्यामवर्तिनी । स्वयंवरविधौ धीरा प्रत्याख्यातवती च सा ॥५८|| भूमौ राजसुतात्कामसौख्यभोगविरागिणी । अद्राक्षीद् बंधुमत्यामा त्वां सा राजगृहे यदा ॥५९॥ ततः परमधत्तांगमनंगशरशल्यितं । तद् विधस्व तया वीर ! वचनान्मम संगमं ॥६०॥ अदत्तेति न चाशंक्यं तुभ्यं दत्ता मया हि सा । अस्य राजकुलस्याहं प्रमाणं कार्यवस्तुनि ।।६१॥ अतो मया वितीर्णेयं वितीर्णा पितृबांधवैः । समागमस्तु वामस्तु देवतासुगृहे ततः ॥६२॥ श्वस्तन्यां कृतसंकेतो रजन्यां सुविनिश्चितः । अमोघदर्शनं देव ! देवतानामतो भवान् ॥६॥ वरित्वा वरमादत्स्व यत् किंचिदिह वांछितं । इत्युक्तेनैव सावाचि वाचा विनयपूर्वया ॥६४॥ कृतस्मरणया देवि ! स्मर्तव्योऽमोघसंमिते । एवमुक्ता च तेनासावेवमस्त्विति देवता ॥६५॥ अंतर्धानमिता सोऽपि निजवासमुपागमत् । दैवतोक्तविधानेन देवताया गृहे ततः॥६६॥ प्रियंगुसुंदरीं शौरी रहसि प्रत्यपबत । सा गंधर्वविवाहादिसहसन्मुखपंकजा ॥६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy