SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३८५ अष्टाविंशः सर्गः। भूभृतो रत्नवीर्यस्य मथुरायां पृथुश्रियः । स मेरुर्मेघमालायां लांतवेंद्रोऽभवत्सुतः ॥ १३५ ॥ अमितप्रभया तस्य प्रिययाऽलाभि भूपतेः । धरणेंद्रचरः पुत्रो मंदरश्चंद्रसुंदरः ॥ १३६ ॥ युवानौ तौ ततो भुक्त्वा कामभोगान् यथेप्सितान् । श्रेयसो जिनचंद्रस्य शिष्यतामुपजग्मतुः।।१३७।। स मेरुर्मेरुनिष्कंपः प्राप्य केवलसंपदं । निर्ववौ तु गणेद्रत्वं मंदरो मंदरोपमः ॥ १३८ ।। संजयंतचरितं जगत्त्रये सुप्रसिद्धमतिभक्तिभावतः।। संभवंतु भुवि भव्यजंतवः संस्मरंतु जिनतां यियासवः ॥ १३९ ।। इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ संजयंतपुराणवर्णनो नाम सप्तविंशः सर्गः । अष्टाविंशः सर्गः। अतः परं परं शौरेः शृणु श्रेणिक ! चेष्टितं । वेगवत्या वियुक्तस्य पुण्यपौरुषयोगिनः ॥ १ ॥ पर्यटनटवीं वीरस्तापसाश्रममश्रमः । प्रविष्टोऽपश्यदाविष्टविकथान् तत्र तापसान् ॥ २॥ राजयुद्धकथासक्ताः यूयं किमिति तापसाः । तापसास्तपसा युक्तास्तपो वाक्संयमादिकं ॥३॥ इति पृष्टा जगुस्ते तं विशिष्टजनवत्सलाः । नवप्रवजिता वृत्तिं मौनी विमो वयं न भोः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy