SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण। सप्तर्विशः सर्गः । महातम प्रभां प्राप्तो मृत्वा व्याधोऽतिदारुणः । दुःखमन्वभवत्सोऽस्यां घोरं मुनिवधोद्भव।।१०९॥ मृत्वा श्रावकधर्मेण रत्नमालाच्युतेऽमरः । जातो रत्नायुधश्चापि तत्रैव सरसत्तमः॥ ११०॥ द्वीपे च धातकीखंडे पूर्वमेरोश्च पश्चिमे । विदेहे गंधिलादेशे राज्ञोऽयोध्यापतेः सुतौ ॥ ११॥ अर्हद्दासस्य तौ देवौ सुव्रताजिनदत्तयोः । जातौ वीतभयौ सीरी चक्री चात्र विभीषणः ।।११२॥ पृथ्वी रत्नप्रभा यातो जीवितांते विभीषणः । अनिवृत्तिमुनेस्त्वंते कृत्वा वीतभयस्तपः ।। ११३॥ यातः स लांतवेंद्रोऽहमादित्याभो मयाप्यसौ । नारको बोधितो गत्वा विभीषणचरस्ततः।।११४॥ जंबूद्वीपविदेहे यो विषयो गंधमालिनी । तत्र रौप्यगिरी चारौ चारुखेचरगोचरः ॥ ११५॥ प्राणी श्रीधर्मणः पूर्व श्रीदत्तायामजायत । श्रीदामनामधेयोऽसौ मया मेरी प्रबोधितः ॥११६ ॥ अनंतमतिसंज्ञस्य गुरोः कृत्वातिशिष्यतां । स चंद्राभविमानेंद्रो ब्रह्मलोकेऽभवत्सुरः ।।११७॥ व्याधपूर्वोऽपि सप्तम्या निसृत्य भुजगोऽभवत् । रत्नप्रभां प्रविश्यत्य भ्रांत्वा तियेक्षुदुःखभाक्॥११८॥ स भूतरमणाटव्यामरावत्यास्तटेऽभवत् । तोकं कनककैश्यां तु तापसस्य खमालिनः ॥ ११९ ॥ स पंचाग्नितपः कुर्वन् मृगशृंगो मृगोपमः। चंद्राभं खेचरं दृष्ट्वा खेचरं तं यदृच्छया ॥ १२० ॥ निदानी वज्रदंष्ट्रस्य विद्युइंष्ट्रीयमात्मजः । जातो विद्युत्प्रभागर्भे विद्याविद्योतितोद्यमः ।। १२१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy