________________
हरिवंशपुराणं ।
३७५
सप्तविंशः सर्गः
इहापरविदेहेऽस्ति विषयो गंधमालिनी । वीतशोका पुरीहात्र वैजयंतोऽभवन्नृपः ॥ ५ ॥ सर्वश्रीरिति भार्यास्य स्वयं श्रीरिव रूपिणी । संजयंतजयंताख्यौ तस्याश्च तनयौ शुभौ ॥ ६ ॥ विहरन्नन्यदा यातः स्वयंभूस्तीर्थकृत्ततः । धर्मं श्रुत्वा पिता पुत्रौ से त्रयोऽपि प्रवत्रजुः ॥ ७ ॥ तेषां विहरतां सार्धं पिहिताश्रवसूरिणा । संजातं वैजयंतस्य केवलं घातिघातिनः ॥ ८ ॥ चतुर्णिकाय देवेषु वंदमानेषु तं मुनिं । जयंतो वीक्ष्य धरणं निदानी धरणोऽभवत् ॥ ९ ॥ स्वपुर्याश्च मनोहर्याः श्मशाने भीमदर्शने । सप्ताहप्रतिमो योगी संजयंतोऽन्यदा स्थितः ॥ १० ॥ भद्रशाले वने स्त्रीभिर्विद्युद्दंष्ट्रोऽन्यदा चिरं । रंत्वाऽऽगच्छत्पुरं दृष्ट्रा संजयंतं यदृच्छया ।। ११ ।। पूर्ववैरवशात्क्रुद्धस्तमानीयात्र भारते । वैताढ्यदक्षिणोपांते गिरौ वरुणनामनि ॥ १२ ॥ हरिद्वती शरच्चंद्रवेगा गजवतीति च । तथा कुसुमवत्यन्या या सुवर्णवती च सा ॥ १३ ॥ पंचानां संगमे तासां प्रदोषसमये स तं । स्थापयित्वा समं गत्वा प्रत्यूषेऽक्षोभयत्खगान् ॥ १४ ॥ राक्षसोऽद्य महाकायः स्वप्नेऽदर्शि मया निशि । क्षयकृत्स किलास्माकं निहन्मस्तं खगा लघु ॥ १५ ॥ इति प्रणोद्यतैः साकमुद्यतैर्विधायुधैः । सोऽवधी निर्ववौ तीर्थे शीतले शीतलस्य सः ॥ १६ ॥ तच्छरीरस्ा चाहार्थं धरणेंद्रः समागतः । रुष्टोः हृत्वाऽखिला विद्यास्तं हंतुं स समुद्यतः ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org