________________
हरिवंशपुराणं ।
चतुर्थः सर्गः। वनकस्यापि विस्तारः त्रिंशल्लक्षाः शतत्रयं । त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशास्त्रिभागवान् ॥ १८७॥ घाटस्य विंशतिर्लक्षा नव षट्षष्टिया षट्शतं । चत्वारिंशत्सहस्राणि सैकानि व्यंशकौ हि सः॥१८८॥ अष्टाविंशतिलक्षास्तु विस्तारः परिकीर्तितः । स पंचाशत् सहस्राणि संघाटस्य निरंतरः ॥१८९॥ सप्तविंशतिलक्षाः स त्रयस्त्रिंशं शतत्रयं । पंचाशच्च सहस्राणि साष्टौ जिह्वस्त्रिभागवान् ॥ १९० ॥ लक्षाः षड्विंशतिः प्रोक्ताः सषट्वष्टिसहस्रिकाः । षट्षष्टिः पट्शती व्यंशो विस्तारो जिबिकाश्रयः॥ पंचविंशतिलक्षास्तु लोलस्य परिकीर्तितः। सहस्राणि च विस्तारः समस्तः पंचसप्ततिः॥१९२।। चतुविशतिलक्षाशा लोलुपस्य त्रिभागवान् । त्र्यशीतिश्च सहस्राणि त्रिशती त्रिंशता त्रयं ॥१९३।। त्रयोविंशतिलक्षास्तु विस्तारः स्तनलोलुपे । सहस्राण्येकनवतिस्व्यंशौ पट्पष्टि षट्शतं ॥ १९४ ॥ त्रयोविंशतिलक्षास्तु तप्ते द्वाविंशतिः परे । त्रिभागोऽष्टौ सहस्राणि त्रयस्त्रिंशच्छतत्रयं ।। १९५ ॥ एकविंशतिलक्षा वै सहस्राणि च षोडश । तपनस्य त्रिभागौ च षटषष्टिः षट्शती च सः ॥१९६॥ लक्षाः विंशतिरुद्दिष्टा मुनिभिः पंचविंशतिः। सहस्राणि च विस्तारस्तापनस्यापि सर्वतः।।१९७॥ एकोनविंशतिर्लक्षा निदाघस्य शतत्रयं । त्रयस्त्रिंशत्सहस्राणि त्रिभागस्त्रिंशता त्रयं ।। १९८ ॥ स चाष्टादश लक्षास्ताः षट्पष्टिः षोडशात्मकं । शतं प्रज्ज्वलितस्यासौ चत्वारिंशत्सहस्रकै॥१९९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org