SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २६८ युत्तरशतं पर्व । अथ कांचन कक्षाभिर्नितांतकृतराजनाः । महाघंटा कृतस्वानाः शंख वामरधारिणः ॥ ९४ ॥ बुद्धदादर्शलंबूषचारुवेषा महोद्धताः । अयस्ताम्रसुवर्णादिवद्धशुभ्रमहारदाः ।। ९५ ।। रत्नचामीकराद्यात्मकंठमालाविभूषिताः । चलत्पर्वत संकाशा नानावर्णकसंगिनः ॥ ९६ ॥ केचिन्निर्भरनियोगंडा मुकुलितेक्षणाः । हृष्टा दानोद्गमाः केचिद्वेगचंडा घनोपमाः ॥ ९७ ॥ अधिष्ठिताः सुसन्नाहैर्नानाशास्त्रविशारदैः । समुद्भूतमहाशब्दैः पुरुषैः पुरुदीप्तिभिः ।। ९८ । स्वान्यसैन्यसमुद्भूतनिनादज्ञानकोविदाः । सर्वशिक्षा सुसंपन्ना दंतिनश्चारुविभ्रमाः ॥ ९९ ॥ विभ्राणाः कवचं चारु पश्चाद्विन्यस्तखेटकाः । सादिनस्तत्र राजते परमं कुंतपाणयः ॥ १०० ॥ आश्ववृन्दखराघातसमुद्भूतेन रेणुना । नमः पांडुरजीमूतचयैरिव समंततः ।। १०१ ।। शस्त्रांधकारपिहिता नानाविभ्रमकारिणः । अहंयवः समुद्धृताः प्रवर्त्तन्ते पदातयः ॥ १०२ ॥ शयनासनतंबूलगंधमाल्यैर्मनोहरैः । न कञ्चिद्दुः स्थितस्तत्र वस्त्राहारविलेपनैः ॥ १०३ ॥ नियुक्ता राजवाक्येन संतताः पथि मानवाः । दिने दिने महादक्षा बद्धकक्षाः सुचेतसः ||१०४ || मधु शीधु घृतं वारि नानानं रसवत्परम् | परमादरसंपन्नं प्रयच्छंति समंततः ॥ १०५ ॥ नादर्शि मलिनस्तत्र न दीनो न बुभुक्षितः । तृषितो न कुवत्रो वा जनो न च विचितकः १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy