________________
पद्मपुराणम् ।
४४
तृतीयं पर्च।
गायंति सह पत्नीभिः मनःश्रोत्रहरं तदा । वीणावादनमारब्धा कर्तुं लक्ष्मीश्च सादराः ॥१८०॥ हावभावसमेताश्च नृत्यंत्यप्सरसो वरं । अंगहारं यथा वस्तु कुर्वाणाः कृतभूषणाः ॥ १८१ ॥ एवं तत्र महातोघे जनितेऽमरसत्तमैः । अभिषेकाय देवेंद्रो जग्राह कलशं शुभं ॥ १८२ ॥ ततः क्षीरार्णवांभोभिः पूर्णैः कुंभैर्महोदरैः । चामीकरमौः पद्मच्छन्नवः सपल्लवैः ॥ १८३ ॥ अभिषेकं जिनेंद्रस्य चकार त्रिदशाधिपः । कृत्वा वैक्रियसामर्थ्यादात्मानं बहुविग्रहं ॥ १८४ ॥ यमो वैश्रवणः सोमो वरुणोन्ये च नाकिनः । मेषवक्रादयः सर्वे चक्रुर्भक्त्याभिषेचनं ।। १८५॥ इंद्राणीप्रमुखा देव्यः सद्धैरनुलेपनैः । चक्रुरुद्वर्तनं भक्त्या करैः पल्लवकोमलैः ॥ १८६ ॥ महीध्रमिव तं नाथं कुम्भैजलधरैरिव । अभिषिच्य समारब्धाः कर्तुमस्य विभूषणं ॥ १८७॥ चंद्रादित्यसमेतस्य कर्णयोः कुंडले कृते । तत्क्षणं सुरनाथेन वज्रसूचीविभिन्नयोः ॥ १८८॥ पद्मरागमणिः शुद्धः चूडायां विनिवेशितः । जटालमिव संपन्न शिरो यस्य मरीचिभिः॥१८९॥ अर्धचंद्राकृतिय॑स्ता चंदनेन ललाटिका । बाहुमूले कृते जात्यहेमकेयूरमंडिते ॥ १९० ॥ नक्षत्रस्थूलमुक्ताभिः कल्पितेन मयूखिना । हारेण भूषितं वक्षः श्रीवत्सकृतभूषकं ॥ १९१ ॥ हरिन्मणिसरोजश्रीरत्नस्थूलमरीचिभिः । संजातपल्लवेनैव प्रालंवेन विराजितः ॥ १९२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org