________________
पद्मपुराणम् ।
५०४
चतुर्विशतितम पर्व। वाजिभिः स्यंदनै गैः पादातैश्च नृपादृताः । कृतसूरमहानादा घनसंघातवर्तिनः ॥ १११ ॥ तोमराणि शरान् पाशांश्चकाणि कनकानि च । तमेकं नृपमुद्दिश्य चिक्षिपुश्च समुद्यताः ॥११२॥ चित्रमेकरथो भूत्वा तदा दशरथो नृपः । जातः शतरथः शक्त्या निःसंख्यानरथोऽथवा ॥११३।। विचिच्छेद स नाराचैः समं शस्त्राणि विद्विषां । अदृष्टाकर्षसंधानैश्चक्रीकृतशरासनः ।। ११४ ॥ छिन्नध्वजातपत्रः सन् विह्वलीकृतवाहनः । शरैर्हेमप्रभस्तेन क्षणेन विरथीकृतः ॥ ११५ ॥ स रथांतरमारुह्य भयावततमानसः । द्रुतं पलायनं चक्रे कृष्णीकुर्वन्निजं यशः ॥ ११६ ॥ ररक्ष स्वं च जायां च शत्रूनस्त्राणि चाच्छिनत् । एको दशरथः कर्म चक्रेऽनंतरथोचितं ॥११७॥ दृष्ट्वा दशरथं सिंहं विधृतशरकेसरं । दुद्रुवुर्योधसारंगाः परिगृह्य दिगष्टकं ॥११८ ॥ अहो शक्तिर्नरस्यास्य हि चित्रं कन्यया कृतं । इति नादः समुत्तस्थौ महान् स्वपरसेनयोः १२१ वंदिघोषितशब्देन शक्त्या वानन्यतुल्यया । जनैर्दशरथो जज्ञे प्रतापं विभ्रदुन्नतं ॥ १२० ॥ ततः पाणिगृहस्तेन कृतःकौतुकमंगले । कन्यायाः परलोकेन कृतःकौतुकमंगलं ।। १२१ ॥ महता भूतिभारेण वृतोपयमनोत्सवः । ययौ दशरथोऽयोध्यां मिथिलां जनको तथा ॥ १२२ ॥ पुनर्जन्मोत्सवं तस्य तस्यां चक्रेऽतिसम्मदः । पुनर्नृपाभिषेकं च परिवर्गो महर्द्धिभिः ॥१२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org