________________
५०३
पद्मपुराणमें।
चतुविंशतितमं पर्व। इत्युक्त्वा ते सुसन्नद्धाः समुद्यतमहायुधाः । नृपा दशरथं तेन चलिताः क्षुद्रचेतसः ॥ ९८ ॥ ततः समाकुलीभूतो वरं शुभमति गौ। भद्र यावन्नृपानेतान् सुक्षुब्धान्वारयाम्यहं ॥ ९९ ॥ रथमारोप्य तावत्त्वं कन्यामंतर्हितो भव । कालज्ञानं हि सर्वेषां नयानां मूर्द्धनि स्थितं ॥१०॥ एवमुक्तो जगादासौ स्मितं कृत्वातिधीरधीः । विस्रब्धो भव माम त्वं पश्यैतान् कांदिशीकृतान्।। इत्युक्त्वा रथमारुह्य संयुक्तं प्रौढवाजिभिः । भृशं संववृते भीमः शरन्मध्याह्नभानुभं ॥ १०२ ॥ उत्तार्य केकया चाशु रथवाहं रणांगणे । तस्थौ पौरुषमालंव्य तोत्रप्रग्रहधारिणी ।। १०३ ॥ उवाच च प्रयच्छाजां नाथ कस्योपरि द्रुतं । चोदयामि रथं पश्य मृत्युरघातिवत्सलः ॥१०४ ॥ जगादासौ किमत्रान्यवराकैनिहतैनरैः । मूर्द्धनमस्य सैन्यस्य पुरुष पातयाम्यहं ।। १०५ ॥ यस्यैतत्पांडुरच्छवं विभाति शशिविभ्रमं । एतस्याभिमुखं कांते रथं चोदय पंडिते ॥१०६ ॥ एवमुक्ते तयात्यंतं धीरया वाहितो रथः । समुच्छ्रितसितच्छत्रस्तरंगितमहाध्वजः ॥ १०७ ॥ केतुच्छायामहाज्वाले तत्र दंपतिदेवते । रथानौ योधशलभा दृष्टा नष्टाः सहस्रशः ॥ १०८ ।। दशस्यंदननिर्मुक्तैर्नाराचैरर्दिता नृपाः । क्षणात्परांमुखीभूताः परस्परविलंधिनः ॥ १०९॥ ततो हेमप्रमेणैते चोदिता लज्जिता जिताः । निवृत्त्य पुनरारब्धं हंतुं दाशरथं रथं ॥ ११० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org