________________
पद्मपुराणम् ।
४९६
चतुविंशतितमंपर्व। अभिव्यक्तं त्रिभिः स्थानैः कंठेन शिरसोरुसा | स्वरेषु समवेतं च सप्त स्थानेषु तद्यथा ॥ ७ ॥ षडर्षभो तृतीयश्च गांधारो मध्यमस्तथा । पंचमो धैवतश्चापि निषादश्चेत्यमी स्वराः ॥ ८॥ स्थितं लयैस्त्रिसंख्यानैर्दुतमध्यविलंबितैः । असं च चतुरस्रं च तालयोनिद्वयं दधत् ॥९॥ स्थायिसंचारिभिर्युक्तं तथारोहावरोहिभिः । वर्णैरेभिश्चतुर्भेदैश्चतुःसंख्यपदास्थितं ॥ १० ॥ नामाख्यातोपसर्गेषु निपातेषु च संस्कृताः। प्राकृती सौरसेनी च भाषा यत्र त्रयी स्मृता ११ धैवत्यथार्षभीषन षड़ोदीच्या निषादिनी । गांधारी चापराषङ्ग कैकशी षडमध्यमा ॥ १२ ॥ गांधारोदीच्यसंज्ञाभ्यां तथा मध्यमपंचमी । गांधारपंचमी रक्तगांधारी मध्यमा तथा ॥१३॥ आंध्री च मध्यमोदीच्या स्मृता कारवीति च । प्रोक्ताथ नंदनी चान्या कैशकी चेति जातयः१४ इमाभिर्जातिभिर्युक्तमष्टाभिर्दशभिस्तथा । अलंकारैरमीभिश्च त्रयोदशभिरन्विता ॥ १५ ॥ प्रसन्नादिप्रसन्नांतस्तथा मध्यप्रसादवान् । प्रसन्नाद्यवसानश्च चतुर्दास्थायिभूषणं ॥ १६ ॥ निवृत्तः प्रस्थितो विंदुस्तथा प्रेखोलितः स्मृतः । तारो मंदः प्रसन्नश्च षोढा संचारिभूषणं ॥१७॥ आरोहिणः प्रसन्नादिरेकमेव विभूषणं । प्रसन्नांतस्तथा तुल्यः कुहरश्चावरोहिणः ॥१८॥ गदितौ द्वावलंकारावित्यलंकारयोजनं । अवागात्साधुगीतं च लक्षणैरेभिरन्वितं ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org