________________
पद्मपुराणम् ।
त्रयोविंशतितमं पर्व। ततो मनस्थजैनेंद्रवर्णनोद्भूतसम्मदः । उन्नतं पुलकं विभ्रदित्यभाषत नारदः ॥६॥ विदेहं नृप यातोहं मासं चारु जिनेहितं । जिनेंद्र भवनाधारभूरिशैलविभूषितं ॥ ७॥ तत्र निष्क्रमणं दृष्टं मया सीमंधराहतः । नगर्या पुंडरीकिण्यां नानारत्नोरुतेजसि ॥ ८॥ विमानैर्विविधच्छायैः केतुच्छत्रविभूषितैः । यानैश्च विविधैर्दृष्टं देवागमनमाकुलं ॥९॥ मुनिसुव्रतनाथस्य यथेह सुरपैः कृतं । तधाभिषेचन मेरौ मया तस्य मुने श्रुतं ॥१०॥ सुव्रतस्य जिनेंद्रस्य वाच्यमानं श्रुतं यथा । तथा मे चरितं तस्य तत्र गोचरितं दृशा ॥११॥ नानारत्नप्रभाढयानि तुंगानि विपुलानि च । दृष्टानि तत्र चैत्यानि कृतपूजान्यनारतं ॥१२॥ विचित्रमणिभक्तीनि हेमपीठानि पार्थिव । दृष्टान्यत्यंतरम्याणि वनचैत्यानि नंदने ॥ १३ ॥ चामीकरमहास्तंभयुक्तेषु स्फुरितांशुषु । भास्करालयतुल्येषु हारतोरणचारुषु ॥ १४ ॥ रत्नदामसमृद्धेषु महावैदिकभूमिषु । द्विपसिंहादिरूपाट्यवैडूर्योदारभित्तिषु ॥ १५ ॥ कृतसंगीतदिव्यस्त्रीजनपूरितकुक्षिषु । अमरारण्यचैत्येषु जिनार्चाः प्रणता मया ॥ १६ ॥ चैत्यप्रभाविकासाढ्यं कृत्वा मेरुं प्रदक्षिणं । पयोदपटलं मित्वा समुल्लंघ्योन्नतं नमः ॥ १७ ॥ वास्यांतरगिरींद्राणां शिखरेषु महाप्रभाः । चैत्यालया जिनेंद्राणां प्रणता बहवो मया ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org