________________
पद्मपुराणम् ।
४३४
एकोनविंशति पर्व। .
तथानलः किष्कुपुरे शरीरजां । प्रसिद्धिमतां हरिमालिनी श्रुतिं । ___ श्रियं जयंतीमपि रूपसंपदा । ददौ विभूत्या परया हनुमते ॥ १०५ ॥ पुरे तथा किन्नरगीतसंज्ञके । स लब्धवान् किन्नरकन्यकाशतं । ___ इति क्रमेणास्य बभूव योषितां । परं सहस्राद्गणनं महात्मनः ॥ १०६ ॥ भ्रमन्नसौ येन महीधरेऽस्थात् । श्रीशैलसंज्ञोऽत्र समीरसूनुः ॥
श्रीशैल इत्यागतवानसौ तत् । ख्याति पृथिव्यामिति रम्यसानुः ॥ १०७ ॥ तदास्ति किष्किंधपुरे महात्मा । सुग्रीवसंज्ञः पुरखेचरेशः ।।
तारेति तारापतिकांतिवक्त्रा । बभूव रामास्य रतेः समाना ॥ १०८ ॥ तयोस्तनूजा नवपद्मरागा । गुणैः प्रतीता भुवि पद्मरागा ॥
पद्मेव रूपेण विशालनेत्रा । भामंडलप्रावृतवक्त्रपद्मा ॥ १०९ ।। महेमकुंभोनतपीवरस्तनी । सुरेंद्रशस्त्रग्रहणोपमोदरी ।।
विशाललावण्यतडागमध्यगा । मलिम्लुचा सर्वजनांतरात्मनां ॥ ११० ।। विचिंतयंती पितरौ च तस्या । योग्यं वरं शोभनविभ्रमायाः॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org