________________
पद्मपुराणम् ।
सप्तमं पर्व। अथ सप्तमं पर्व । अत्रांतरे पुरे राजा रथन पुरनामनि । सहश्रार इति ख्यातो बभूवात्यंतमुद्धतः ॥१॥ तस्य भार्या बभूवेष्टा नाम्ना मानससुंदरी । सुंदरी मानसेनालं शरीरेण च सद्गुणा ॥२॥ अतर्वत्नी सतीमेतामत्यंतकृशविग्रहां । भापृच्छत् श्लथाशेषभूषणां वीक्ष्य सादरं ॥३॥ विभ्रत्यंगानि ते कस्मानितांतं तनुतां प्रिये । किं तवाकांक्षितं राज्ये मम जायेत दुर्लभं ॥४॥ गत्वा प्रगल्भतां ब्रूहि तवाद्यैव समीहितं । संपादयामि निःशेषं देवि प्राणगरीयसि ॥५॥ कर्तुं शक्तोस्मि ते कांते सुरस्त्रीकृतशासनां । शचीमपि कराग्राभ्यां पादसंवाहकारिणी ॥ ६ ॥ इत्युक्ता सा ततस्तेन वरारोहांकसंश्रिता । जगाद विनयादेवं वचनं लीलयान्वितं ॥७॥ यस्मादारभ्य मे गर्भे संभवं कोप्ययं गतः । ततः प्रभृति यांच्छामि भोक्तुमिंद्रस्य संपदं ॥८॥ इमे मनोरथा नाथ परित्यज्य मया त्रयां । परायत्ततयात्यंतं भवतो विनिवेदिताः ॥९॥ इत्युक्ते कल्पिता भोगसंपत्तस्याः सुरेंद्रजा । विद्याबलसमृद्धेन सहस्रारेण तत्क्षणात् ॥ १० ॥ संपूर्णदोहदा जाता सा ततः पूर्णविग्रहा । धारयंती दुराख्यानां द्युतिं कांतिं च भामिनी ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org