________________
R
श्रीपरमात्मने नमः। श्रीमद्रविषेणाचार्यकृतं पद्मपराणम् ।
मंगलाचरणम् । सिद्धं संपूर्णभव्यार्थ सिद्धेः कारणमुत्तमं । प्रशस्तदर्शनज्ञानचारित्रप्रतिपादनं ॥१॥ सुरेंद्रमुकुटाश्लिष्टपादपद्मांशुकेशरं । प्रणमामि महावीरं लोकत्रितयमंगलं ॥२॥ प्रथमं चावसर्पिण्यामृषभं जिनपुंगवं । योगिनं सर्वविद्यानां विधातारं स्वयंभुवं ॥३॥ अजितं विजिताशेषबाह्यशारीरशात्रवं । शंभवं शं भवत्यमादित्यभिख्यामुपागतं ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org