________________
स्याद्वाद-सिद्धौ परोक्त्यैवाऽनुमेष्टा चेत् , स्वोक्त्या सा नेष्यतः(ष्टिता) कुतः ? व्यभिचारेण तन्नेष्या, नाऽध्यक्षं चाविशेषतः ॥७॥ निर्बाधं तत्प्रमाणं चेत्, अनुमाऽप्यस्तु तादृशी। पितामहानुमानं हि निर्बाधत्वेन सम्मतम् ।।।। धर्मादि-कार्य सिद्धेश्च तत्काऽऽत्माऽपि सिद्धयति । [कार्य हि कर्तृ-सापेक्षं तद्धर्मादि सुखावहम् ।।६।। 'तत्कर्ताऽऽत्माऽस्ति, सौख्यादेरन्यथानुपपत्तितः ।' इत्यापत्तितः सिद्धय त्स आत्मा परलोक-भाक् ।।१०।। न हि सौख्यादिकार्यस्य धर्मादेरिह दर्शनम् । तत्तत्कत्तो भवेत्प्राक च पश्चाच्चेत्तस्य नित्यता ॥१॥ तत्त्वान्तरं सदा चित, सु-सदहेतुक-भावतः । पृथिव्यादिभ्य इत्येवमनुमाऽप्यस्य साधनम् ।।१२।। चिदस्तित्वे विवादो न चार्वाकस्याऽपि, तेन च । भूत-संहति-कार्यस्य ज्ञानरूपस्य कल्पनात् ॥१३॥ नेयं कायस्य कार्य स्यादात्मज्ञेनाऽप्यतद्ग्रहात् । गृह्यते हि घटादिकैर्विकार्यपि मृदादिकम् ॥१४॥ स्वसंवेदनाक्षजाभ्यां हि नीय[मानत्वमे]नयोः । प्रतीति-भिन्न-मानाभ्यां नैवं कारण कार्ययोः ॥१शा भूतसंहति कार्यत्वं तन्न ज्ञानात्मकाऽऽत्मनः । इत्यहेतुकता-सिद्धेहे तो सिद्धिदूषणम् ।।१६।। अविनाभाविताऽप्यस्य व्यभिचाराद्यभावतः । कादाचित्कं न दृष्टं हि किश्चिच्च सदहेतुकम् ॥१७॥ ज्ञानं [कायस्वभाव] स्यात्तन्न तत्त्वान्तरं ततः । प्रतिज्ञार्थंकदेशः (शोऽ)स्यात्सि (सिद्धिरित्यपि दुर्मतम् ।।१८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org