________________
स्याद्वाद सिद्धौ
पौरुषेयो भवेद्वेदो वर्ण-वाक्यात्मकत्वतः । भारतादिवदित्येवमनुमानस्य दर्शनात् ॥ ३ ॥ वेदे वर्णस्य वर्णानामभिव्यक्तिक्रमस्य च । नित्यताऽन्यत्र वर्णानामेक वक्तृ-स्मृते यदि ॥ ४ ॥ न च वर्णस्य नित्यत्वं देश - कालादिभेदिनः । 1. तस्यैव प्रतिपन्नत्वात्घटादेरिव सर्वथा ॥ ५ ॥ स एवायमकारादिरित्यादिप्रत्ययोऽपि वै । सादृश्यात्स्यादभेदाच्चेदात्माद्वैतश्च सम्भवेत् ॥ ६ ॥ सैवेयं स्यादहंबुद्धिरिति प्रत्ययभावतः । साध्यते तच्च नाभेदप्रत्ययाद्ध दविभ्रमात् ॥ ७ ॥ भ्रान्तेयं प्रत्यभिज्ञा स्यादात्म-भेदस्य दर्शनात् । अभेदे सुख-दुःखादेः प्रत्यात्मा (त्म ? ) नियतिः कथम् ॥ ८ ॥ इति चेकि न वर्णेषु भ्रान्ता सा तुल्यदोषतः । उदात्तान्यादिभेदो हि सवस्तत्र च वीक्ष्यते ॥ ६ ॥ अभिव्यञ्जक-वाय्वादेर्भेदाग दोऽत्र चेदयम् । उपाधिभेदतोऽभीष्टा सुखादेर्नियतिः परैः ॥ १० ॥ प्रदेशार्थ रखण्डस्य नित्यशुद्धस्य चात्मनः । व्यापिनोऽन्यैर्न भेदश्चेत्तादृग्वर्णेष्वयं कथम् ॥ ११ ॥ ततः स्यात्प्रत्यभिज्ञानाद्दोष- साम्याच्च सर्वथा । वर्ण-नित्यत्वसिद्धिश्चेदात्माद्वैतस्य च स्थितिः ॥ १२ ॥ वाच्य-वाचकसम्बन्ध - परिज्ञानं न सम्भवेत् । वरणादेश्चेदनित्यत्वं सङ्क ेतित वचः क्षयात् ॥ १३ ॥ स्यादयं गौः पटोऽयं स्यादिति सङ्केतितं वचः । स्थायि चेत्तदनुस्मृत्या वाच्ये (च्यो ) ऽर्थो हि न चान्यथा || १४ ||
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org