________________
१३२
अकारादि अक्षर : वर्ण तथा फल
ध्यायेदनादि सिद्धान्त प्रसिद्धां वर्णमातृकाम् । निः शेष शब्द विन्यास जन्मभूमि जगन्नुताम् ॥
अकारं चन्द्रकान्तामं सर्वज्ञ विश्वयोनिकम्ज । सर्वसिद्धिप्रदं ध्यायेत्समर्थ सर्वकर्मसु ॥१॥
आकारं श्वेतवर्णं तु सर्व लोक वशंकरम् । विश्वस्य स्वामिनं ध्यायेत्समर्थं बहु कर्मसु ।।२।।
इकारं चिन्तयेन्मंत्री जवाकुसुम सन्निभम् । विश्वचक्षुस्तया सर्वं समर्थ बहुकर्मसु ॥३॥
ईकारं रक्तवर्ण तु स्मरस्य जननी विदुः ।। अनंत सुखदं देवं समर्थ बहु कर्मसु ॥४॥
उकारं कृष्णवर्ण तु संस्मरेत् विश्वमूर्तिकम् । औपासनस्य वरदं ध्यायेत्समर्थ बहुकर्मसु ॥५॥
ऊकारं पीतवणं तु सर्वसिद्धिप्रदायकम् । स्मरेद्विश्वमुखं मंत्री सर्वविघ्न विनाशकम् ।।६।।
ऋकारं नीलवर्ण तु विश्वविद्याधिनायकम् । चिनायेच्च महामन्त्री समर्थं बहुकर्मसु ।।७।। ऋकारं कृष्णवणं तु विश्वात्म सर्वलोकजित् । मंत्रिणां वरदं ध्यायेत् समर्थं बहुकर्मसु ।।८।।
लकारं तद्विश्वभवं सुवर्ण-सदृश-प्रभम् । मंत्रिणां वरदं ध्यायेत् समर्थ बहुकर्मसु ॥९॥ महाकायं विश्वदृशं सर्वविघ्नविनाशकम् । ल कारं चिन्त येत्ध्यानी समर्थं बहुकर्मसु ॥१०॥
महाशूरं विश्वविदं कुंदपुष्प सत्विषम् ।। एकारं चिन्तयेन्मन्त्री समर्थ बहुकर्मसु ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org