________________
७८
परिशिष्ट-१
ग्रन्थगता नियमाः नियमाः अनन्तधर्मात्मकवस्तुप्रतिपादकवाक्यत्वं च प्रमाणवाक्यत्वम् । अपेक्षावचनं नयः । इतरांशाप्रतिक्षेपकत्वे सत्येकांशग्राहकत्वं हि नयत्वम् । एकं च पदं नोद्देश्यत्वविधेयत्वयोः प्रयोजकम् ।। एकत्र धर्मिणि विरुद्धनानाधर्मप्रकारकज्ञानं संशयः । एकत्र विशेषणत्वेनोपस्थितस्य निराकाङ्क्षतया नाऽन्यत्र विशेषणतयाऽन्वयः । एकधर्मवोधनद्वारा तदात्मकाशेषधर्मात्मकवस्तुविषयकवोधजनकवाक्यत्वं सकलादेशत्वम् । एकधर्मात्मकवस्तुविषयकवोधजनकवाक्यत्वं विकलादेशत्वम् । एकस्य सनिरूपकस्यैकजातीयं निरूपकमेकमेव भवति । एकस्यां सप्तभइयां विधिनिषेधभावमापन्नानां धर्माणां प्रतिपादका एव भड़ा घटका नाऽन्ये घटत्वादिमात्रस्य विशेष्यतावच्छेदकत्वमेव, अस्तित्वादीनां च प्रकारत्वमेव । तत्तद्धर्मप्रकारकवोधजनकवाक्यत्वं प्रमाणवाक्यत्वम् । तदधिकरणस्यैव तन्निष्ठधर्मावच्छेदकत्वम् । तदधिकरणस्यैव देशकालादेर्देशकालादिविधया तद्वर्तिन एव धर्मस्य धर्मविधया च तन्निष्ठधर्मस्याऽवच्छेदकत्वम् ।। तदभिन्नाभिन्नस्य तदभिन्नत्वम् ।।
६८, ७२, देशवृत्तितायां कालरूपस्याऽधिकरणस्य, कालवृत्तितायां च देशरूपस्याऽधिकरणस्याऽवच्छेदकत्वम् । द्योतकस्य पदान्तरसमभिव्याहार एवाऽर्थविशेषाववोधनाय प्रयोक्तव्यत्वम् । द्वयोरप्यप्रयोक्तव्यत्वप्रसक्तो केवलस्यैवकारस्याऽप्रयोक्तव्य-त्वमेव । धर्मिकल्पनातो धर्मकल्पना लघीयसी । निपातातिरिक्तनामार्थयोरभेदातिरिक्तसम्वन्धेन साक्षादन्वयो न भवति । पदार्थः पदार्थेनाऽन्वेति न तु पदार्थैकदेशेन । प्रतिपाद्यप्रश्नानां सप्तविधानामेव सद्भावात् सप्तैव भङ्गा । प्रतियोग्यनवच्छेदकस्याऽभावावच्छेदकत्वम् । प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तिकत्वम् । प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ ।
१५, १९, ४९, ५३, ५४ प्रत्येक यो भवेद्दोपो द्वयोर्भावे कथं न सः ।
VWr 0 ० 0 r mmWS
3 m mu
१३
ब
०
Ww ० ०
०
२४, ५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org