SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ - [७०] चैत्यवंदन महाशुद्धसिद्धान्त मध्ये प्रसिद्धं, प्रतीतं पुराणेषु शोभासमृद्ध, गतं वेदवेदान्तशास्त्रेऽवदातं, यदीयं चरित्रं न च क्वापि मातं....३ अनन्तं पुनन्तं जनं भक्तिमन्तं, हरन्तं दुरन्तं प्रमादं स्फुरन्तं, जिनं नाभिभूपालवंशावतंसं, श्रये तं शरण्यं जिवाम्भोजहंसं...४ कलाकेलिसर्पप्रणाशे सुपर्णः, सुवर्णोपमानोल्लसद्देहवर्णः, वृषांकः सुखांकूरमेघः सुरम्यं,युगादीश्वरो मे प्रदत्तां सुसाम्यं....५ अजितनाथ नु [२] कुशलकाननपुष्टिबलांगकं, भवदवानलशान्तिबलाहकं, अजिततीर्थपति श्रितवत्सलं, भजत भव्यजना ! विगतच्छलं....१ विमलकेवलबोधकलाधरं, भविकलोकचकोरकलाधरं, करिवरांकितपादपयोरुहं नम जिनं जितशत्रुतनूरुहं....२ विजयिनी जननी ननु गर्भगे, व्यजनि यत्र बुधैः सदिदं जगे, मृगपतौ सबलेन्तरमाश्रिते, गिरिगुहा किल कैःपरिभूयते?....३ अपि गदायुधचक्रिपुरंदर-स्थिरपराक्रमभंगकरः स्मरः, सुकृतिभिःकिल यस्य जगत्पतेझटिति नामबलादपि जीयते....४ सततमक्षयमोक्षपदं श्रितः, स्फुरदनंतचतुष्टयशोभितः, अजिततीर्थकरो मम मंगलं,दिशतु शाश्वतसौख्यमलम्फलम्....५ संभवनाथ नु [३] लोचनानंद विस्तारि चंद्राननं, मोहमातंगभेदाय पंचाननं, विश्वविख्यातनित्योदितप्राभवं,संभवं शंभवं स्तौमि भक्त्याभवं..१ येन गर्भस्थितेनापि भूमंडले,शस्यवृध्द्या सुभिक्षं विधायाखिले, केवलित्वे पुनर्बोधिबीजार्पणाद्धारी? वात्सल्यधीःसर्वसाधारणा..२ शोषितो येन संसारघोरार्णवश्चूर्णितश्च प्रमादाचलःसध्र वः, मोहसेनापि सा दुर्जया निर्जिता,शक्तिमानं गुरूणां हि को वेदिता देवदेवं दयावल्लरीमंडपं, दुष्कृतानोकहछेदकानेकपं, पापपंकापनोदाय चंडातपं, संस्तुवे तं तृयीयं तु तीर्थाधिपं....४ श्रीजितारिक्षमापालसेनांगजः,स्वर्णशैलद्युतिभ्राजिवाजिध्वजः, तीर्थनाथस्तृतीयोऽस्तु रत्नत्रय-बायको मे त्रिलोकीशवंद्योदय..५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003635
Book TitleChaityavandan Chauvisi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year
Total Pages110
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy