SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५८८ व्याश्रयमहाकाव्ये [कुमारपालः] परदारमद्यसेवी दारुणकर्मा निशाचरस्तीक्ष्णः । विषमः प्रसह्य हर्ता प्राक्प्रोष्टपदे भवति जातः ॥ प्राक्प्रोष्ठपदा पूर्वभद्रपदा यत्र स प्राक्प्रोष्ठपदः कालस्तत्रे । यतः । कीहक् । धर्मादत्युत्तरभद्रपाद उत्तरभद्रपदासु जातमतिक्रान्तः । उत्तरभद्रपदासु हि जातोतिधार्मिकः स्यात् । उक्तं च । वक्ता सुखी प्रजावान्धार्मिको द्वितीयास्वित्यादि । द्वितीयासूत्तरभद्रपदासु । श्रीकुमारपालोत्पादितयाहिंसादिविषयया धर्मवासनया तस्मादप्यतिधार्मिक इत्यर्थः॥ श्वापदम् शौवापद । इत्यत्र "पदस्यानिति वा" [१२] इति वा-औत् ॥ अनितीति किम् । श्वापदिकः ॥ प्रोष्ठपादः । उत्तरभद्रपादः । अत्र "प्रोष्ट०" [१३] इत्यादिनोत्तरपदस्य वृद्धिः ॥ उपजातिः ॥ तं पूर्वनैदाघरविप्रतापमनुव्रजन्सोपि न जन्तुहिंसाम् । चक्रे सुपाञ्चालकसर्वपाञ्चालकापाञ्चालकलोक उच्चैः ३५ ३५. सोपि हिंसकत्वेन सर्वत्र प्रसिद्धोपि सुपाञ्चालकैसर्वपाञ्चालकार्धपाञ्चालकलोकः सुपञ्चालेषु सर्वेषु पञ्चालेष्वर्धेषु पञ्चालेषु च भवो यो लोकः स जन्तुहिंसामुच्चैर्न चक्रे । यतः। पूर्वनैदाघो निदाघस्य पूर्वस्मिन्भागे भवो यो रविस्तद्वत्प्रतापो यस्य तं तथा तं भैमिमनुव्रजन्सेवकत्वात्तदाज्ञाप्रतिपालनेनानुगच्छन् । १ ए°लका. २ सी कलो. १बीमाभिनि. २ एत्र । यः की. ३ ए °रभाद्रपद. ४ ए °रभाद्र. ५ सी °सु हि. ६ ए प्रभाद्र. ७ सी °खी च प्र. ८ ए°यास्वसू. ९ बी वात्. १० सी दः । अ. ११ सी सत्वे'. १२ ए 'कलो. १३ सी लकसु.. १४ ए बी सुपाञ्चा'. १५ सी °था भै. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy