SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ [है० ७.३.१३९.] विंशः सर्गः। शासितुः सुरभिगन्धि यशः कर्म क्षिणोति क्षयं नयति किमुत किं पुनः प्रत्यक्षमेवैष पशूनां वधः ॥ वसन्ततिलका ॥ उद्गन्धि दुग्धं कलमान्सुगन्धीं__ स्त्यक्त्वा पलं कावति पूतिगन्धिं । लोको यदुद्गन्धि सुगन्धमत्तुं . तच्छासितुस्तत्खलु दुविवेकः ॥ १२ ॥ १२. स्पष्टम् । किं तु । पूतेरिव गन्धो यस्य तत्पूतिगन्धि स्वभावेन दुर्गन्धं परं कर्पूरादिसुरभिद्रव्यक्षेपेणोद्गन्ध्युल्लसद्गन्धं सुगन्धं च सत्पलं मांसमत्तुम् । तच्छासितुर्लोकं शिक्षयितुर्नृपस्य ॥ इन्द्रवज्रा ।। उद्गन्धमम्ब्विह सुगन्ध्यथ पूतिगन्धि यद्वन्मरुत्सुरभिगन्धिरु पूतिगन्धः । संसर्गतः सुरभिगन्धमिदं वपुर्वा राजानुरूपगुणभृजन एष तद्वत् ॥ १३ ॥ . १३. उ हे पशुकर्षिन्नर यद्वद्यथेह जगत्यम्बु जलं संसर्गतः सुरभिद्रव्यसंसर्गादुद्गन्धमुत्कृष्टगन्धं सुगन्धि चाथाथ वा दुर्गन्धद्रव्यसंसर्गात्पूतिगन्धि दुर्गन्धं स्याद्यथा वा मरुद्वातः संसर्गतः सुरभिगन्धिः पूतिगन्धो वा स्याद्यथा वेदं प्रत्यक्षदर्गिन्ध्यं वपुः संसर्गतः सुरभिगन्धं स्यात्तद्वत्तथैष जनः संसर्गतो नृपसंसर्गेण राजानुरूपगुणभृत् । राज शब्देनात्र राजगता गुणा उपचारादुच्यते। ततो राजानुरूपा राजगुणसदृशा ये गुणाः कृपादयोकृपादयो वा तद्विभ्रत्स्याद् यथा १ ए गन्धीस्त्य. २ सी °न्धि सु. १ सी मुति किं. २ सी गन्धिद्र'. ३ ए °न्धो यथा स्या.४ ए जारू'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy