________________
[ है० ७.३.१३१.]
विंशः सर्गः ।
दुष्टा निन्द्या सक्तिः पशुविक्रयादिकुव्यापारसंसर्गो यस्य स दुःसक्तः॥ मन्दाक्रान्ता छन्दः॥
दुःसक्तिमूचे तमसौ सुसक्तिरेनस्यसक्तिः सुकृते सुसक्तः । अवीनसक्थान्नु गतावसक्ता
न्हेतोः कुतः कर्षसि भोः सुसंक्थ ॥६॥ ६. असौ भैमिर्दुःसक्तिं पशुविक्रयरूपदुष्कर्मासक्तं तं नरमूचे । कीहक्सन् । शोभना सक्तिर्धार्मिकैः सह संसर्गो यस्य स सुसक्तिरत एवैनसि पापकर्मविषयेसक्तिस्तथा सुकृते धर्मे सुसक्तः । किमूच इयाह । शोभने गमनदक्षे सक्नी(क्थिनी) यस्य भोः सुसक्थावीश्छागान्कुतो हेतोः कर्षसि । किंभूतानपि । असक्थान्नु यथा सक्थिरहिता गतावसक्ताः स्युरेवं गमनेसक्तानसंसर्गान्बलान्नीयमानत्वेन स्वयमगच्छत इत्यर्थः ॥ उपजातिः ॥
स प्रत्यवोचत्सुहलो न दुहेलो न चास्म्यहं किं त्वहलो नयामि तत् । असक्थिदुःसक्थिसुसक्थिकानमू
न्दातुं वसुभ्यः प्रति सौनिकापणे ॥७॥ ७. स नरः प्रत्यवोचत् । तथा हि । हे राजन्नस्मि न सुहलो न च दुहेलो न शोभनया न वाशोभनया हल्या युक्तः किं त्वहमहलो हलिरहितोतिदरिद्र इत्यर्थः । तत्तस्मादमून्पशून्वसुभ्यः प्रति दातुं ध
१ ए °सक्थ्यन्नु. २ ए सक्थः ॥ अ. ३ सी विथका. १ए दिव्या . २ सी मद. ३ सी वशक्ताः. ४ सी यमाग. ५ ए प्रत्युवों. ६ ए °न्वस्तुभ्यः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org