________________
[है० ७.३.१३१.] विंशः सर्गः।
५६३ इहोपचतुरेषु जगत्सु पाप
ण्डिनां विचतुरं शतमर्चमानः ॥४॥ ४. स भैमिश्चत्वारि समीपे येषां संख्येयानां तेषूपचतुरेषु त्रिषु जगत्सु समप्रथत प्रख्यातः । यतः कषायैः कृत्वा सदाचर्तुरः क्रोधादिकषायचतुष्टयरहित इत्यर्थः । तथास्खलितैः पुमर्थैः सुचतुरः शोभनपुमर्थचतुष्टयान्वित इत्यर्थः । तथेह पृथ्व्यां पाषण्डिनां विहश्यानि विगतानि वा चत्वारि यस्य तद्विचतुरं शतं षण्णवतिमर्चमानः ॥ कोलश्छन्दः । सौ स्यौ कोलः ॥
अन्तलोमं दधदथ बहिर्लोममौर्ण त्रिचत्वाः कर्षन्दीनांस्त्रिचतुरपशूनेकदा पुष्यनेत्रे । आसेव्येहन्यनृचसहितैबढ्चैः पद्मनाभे दुःसक्थः पथ्यहलिरमुना कोपि दुःसक्त ऐक्षि ॥५॥ ५. अथामुना भैमिना कोपि ग्राम्यनरो दीनान्बलादाकृष्यमाणत्वेन दीनमुखांस्त्रिचतुरपशूस्त्रींश्चतुरो वा छागान्पथि कर्षन्विक्रेतुं राजमार्गे नयन्सन्नैक्षि । क । एकदैकस्मिन्काले । एकस्मिन्वर्ष इत्यर्थः । पुष्यो नेता नायको यस्य तस्मिन्पुष्यनेने पुष्येण चन्द्रयुक्तेन युक्त . इत्यर्थः । अहन्यामलकैकादशीत्याख्यया प्रसिद्धायां पौष्यां फाल्गुनशुक्लैकादश्याम् । महापर्व दिन इत्यर्थः । व सत्यैक्षि । पद्मनाभे विष्णौ । किंभूते । न विद्यन्त ऋचो येषामनृचा माणवास्तत्सहितै
१ए 'न्तभोमं. २ सी लोम द. ३ सी मौर्ण त्रि. - १ ए धू च. २ ए `तुर को. ३ ए पुमाथुः सच'. ४ सी दृशानि. ५सीन: । कौलछन्दः. ६ एश्छन्दं । सो स्यौ. ७एचपुरपशुंस्त्रीचतुरो. ८सी तुरः प. ९सीद्धाया पौ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org