________________
[ है० ७.२.१५३.] एकोनविंशः सर्गः ।
५१३ शते च लभन्ते तानप्यासतां महान्तोल्पकानपि भटान्निग्धया सानुरागया दृशा स भैमिरपश्यत् । यत उत्कान्नुपदर्शन उत्कण्ठितान् । तथाल्पकत्वेन पश्चास्थितान्दूरस्थानित्यर्थः ॥ पैटपटाकृत्य । इत्यत्रं "डाच्यादौ” [ १४९ ] इति पूर्वपदे यस्तस्तस्य लुक् ॥ बह्वादिष्टे । बहुशो नृपान् । भूरिशो द्वास्थैः ॥ अल्पार्थादनिष्टे । अल्पशो नृपान् । अस्तोकशो रिपून् । इत्यत्र "बह्वल्प०" [ १५० ] इत्यादिना प्रशस् ॥
एकशः । एकार्थः । अश्वशः । अत्र “संख्या०" [ १५१ ] इत्यादिना शस् ॥ वाधिकारात्पक्षे द्विवचनमपि । एकैकम् । अश्वमश्वम् ॥
द्विपदिकाद्विशतिके ददानाः । द्विपदिकाम् द्विशतिकामदण्डयत् ॥ वीप्सायाम् । द्विपदिकां द्विशतिका लभन्ते । अत्र "संख्यादेः०" [१५२] इत्यादिना-अकल । प्रकृतेरन्तस्य लुक्चं ॥
द्वैतीयीकः शशी कान्त्या द्वितीयस्तेजसा रविः ।
तां तृतीयाय्यविद्यां स धारयंस्तर्कितो जनैः ॥ ४७ ॥ ४७. स्पष्टः । किं तु कान्त्या शशी तेजसा रविश्च । कुतोयमतीत्याह । यतस्तां राज्ञा भीमकान्तगुणादीनां प्रतिपादकत्वेन प्रसिद्धां तृतीयोग्यविद्यामान्वीक्षिकी त्रयी वार्ता दण्डनीतिरिति चतस्रो विद्यास्तत्र तृतीयस्या वार्ता विद्याया अग्र्या चतुर्थी या विद्या दण्डनीतिस्तां धारयन् । राजनीतिशास्त्रोक्तं राज्ञा प्रजासु कान्तेन भाव्यं शत्रुषु च तेजस्विनेत्याद्यर्थं प्रजासु कान्तीभवनेन शत्रुषु भीमीभवनेन च विभ्रत् ॥
१ ए रागाया. २ सी शनस्य लुप। बह्व. ३ बी पटेप. ४ बी 'त्र द्राद्यादौ. ५ बी °स्तस्य. ६ए हल इ. ७ बी ना म्शस्. सी 'ना शस्. ८ सी कार्थाः । अं. ९ बी क्च । द्वितीयी. १० बी राज्ञा भी'. ११ सीज्ञां सीम. १२ बी यागवि. १३ ए °नीस्तां. १४ ए नी शा. १५ ए °न वि. १६ ए त् । द्वितीयी. बी °त् । द्वितीयकः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org