________________
व्याश्रयमहाकाव्ये [कुमारपालः ] स सत्यं कुर्वतो भद्राकृताल्(ल्ल)क्षम्यपहारतः । क्लैब्यान्मंद्राकृतेश्मशूनप्यरीन्गुप्तितोमुचत् ॥ ४० ॥ ४०. स भैमिरासतामन्येरीनपि गुप्तितः कारातोमुचत् । किंभूतान्सतः । लक्ष्म्यपहारतो राज्यलक्ष्भ्या अपहारेण भद्राकृतान्मुण्डितानिव यथा मुण्डिता अपहृतकेशश्रीकाः स्युस्तथापहृतलक्ष्मीकानित्यर्थः। तथा क्लैब्यान्निःसत्त्वतया मद्राकृता तवाग्रे वयं क्लीबा नपुंसका न तु पुरुषा इति ज्ञापनाय मुण्डिता श्मश्रुयैस्तान् । तथा सत्यं कुर्वतोद्यप्रभृति वयं त्वदासा इति प्रत्यायनार्थ सप्रत्ययदेवतादिशपथं कुर्वाणान् ॥ प्रियाकृत् । सुखाकृत् । इत्यत्र "प्रिय." [१४० ] इत्यादिना डाच् ॥ दुःखाकुर्वन् । इत्यत्र “दुःखात्" [ १४१ ] इत्यादिनी डाच् ॥ शूलाकुर्वन् । इत्यत्र “शूलापाके" [ १४२ ] इति डाच् ॥ सत्याकुर्वन् । इत्यत्रं "सत्याद्' [ १४३ ] इत्यादिना डाच् ॥ अशपथ इति किम् । सत्यं कुर्वतः ॥ मद्राकृत । भद्राकृतान् । अत्र “मद्र०" [१४४ ] इत्यादिना डाच् ॥
सोथ झात्कारिकाञ्चीनां स्त्रीणां झलझलाकृताम् ।
नेत्रैझलझलायद्भिः पीयमानः पुरविशत् ॥ ४१॥ ४१. अथ स भैमिः पुरेविशत् । कीदृक्सन् । स्त्रीणां नेत्रैः पीयमानः सतर्ष दृश्यमान इत्यर्थः । कीदृशीनाम् । झात्कारिण्यो दि
१ए मद्राः कृ. २ सी तस्मथ ..
१ ए भैमीरा . २ बी न्सतोऽल'. ३ सी हारे'. ४ बी म्याप'. ५ सी तानि त?. ६ सी तानि स्मश्रृणि यैस्ता'. ७ बी यं त्वं दासा. ८ बी खाहृत्. ९ए नाच्. १० बीत्र शूलात्पाके इति डाच् । अ. ११ बी 'रिण्या दि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org