________________
४९४
व्याश्रयमहाकाव्ये
[कुमारपालः
८. स्पष्टः । किं त्वकुप्यदान्नं प्रति । ते पितामहो जयसिंहः । इत्थमिममेतं वा विग्रहलक्षणं प्रकारं न व्यधात् । बहुधा बहुभिः प्रकारैः।
ऐषमः । पैरुत् । परारि । इत्येते "ऐषमः" [१०] इत्यादिना निपात्याः ॥
कर्हि चित् । यहि । तर्हि । बहुर्हि । इत्येतेषु "अनद्यतने हि(हिः)" [१०१] इति हिः ॥ सर्वथा । इत्यत्र "प्रकारे था" [ १०२ ] इति था ॥ कथंचित् । इस्थम् । एतौ "कथमित्थम्" [ १०३ ] इति निपात्यौ ॥ बहुधा । इत्यत्र “संख्याया धा" [ १०४ ] इति धा ॥
चिकीर्षत्यान्न ऐकध्यं पूर्वस्नेहं द्विधाकृतम् । तितिक्षबँकधैकध्यमपराद्धं तदास्य तत् ॥ ९॥ ९. आनो द्विधाकृतमनेन विग्रहेणैकं सन्तं द्वौ कृतं पूर्वस्नेहमप्रेतनी प्रीतिमैकध्यमनेकं सन्तमेकमभिन्नं चिकीर्षति मैत्री चिकीर्षतीत्यर्थः । तत्तस्माद्धेतोस्तदानन्तरातीतदिनेस्यान्नस्यापराद्धं विग्रहलक्षणमैकध्यं प्रसादकरणरूंपेणैकप्रकारेण तितिक्षस्व सहस्व । किंभूतम् । एकधानेकदुर्वाक्यप्रहाराद्यपेक्षयाने सदेकविग्रहापेक्षयैकमान्नस्यैकमपराद्धं प्रसद्य सहस्वेत्यर्थः ॥
द्वेधा त्रेधापराद्धपि द्वैध त्रैधमिवैकधा ।
प्रार्थितानां सतां चेतो द्वैधं त्रैधं च नो भवेत् ॥ १० ॥ १०. द्वेधा त्रेधा द्वाभ्यां प्रकाराभ्यां त्रिभिः प्रकारैर्वापराद्धेपि द्वि१ एकध्य. २ सी राधं त'. ३ ए भवत्.
१ सीतं च वि. २ बी सी रैः । एष. ३ बी परत्. ४ बीरे वा इ. ५बीनी प्रति. ६ बी रूपप्र. ७ ए बी राधं प्र. ८ सीभ्यां त्रि. ९सी राधेपि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org