________________
[ है० ७.२.७१.] अष्टादशः सर्गः।
४८१ स बाहुबल्यूरुबली सवर्मी स्वान्यामिनीपङ्कजिनीवदान्नः । म्लानान्विदित्वा करिणं नुनोद रुषाब्जिनीपुष्पदलारुणाक्षः ९२
९२. स्पष्टः । किं तु सवर्मी वर्मास्यास्ति वयेवं नाम राजा तेनान्वितः । अब्जिनीपुष्पं रक्तोत्पलम् ।। उपजातिः ॥ मदाम्भसा पुष्करिणी नु तन्वत्यत्रानहस्तिन्यथ दन्तिनं स्वम् । नुनोद सद्दानतरङ्गिणीकं वर्णीव रामस्तरसा चुलुक्यः ॥ ९३ ॥
९३. स्पष्टः । किं तु पुष्करिणी नु वापीमिव तन्वति मदोन्मत्त इत्यर्थः । आन्नहस्तिनि विषये सहानतरङ्गिणीकं विद्यमानमदनदीकं खं हस्तिनं नुनोद । यतस्तरसा बलेन कृत्वा वर्णो ब्रह्मचर्यमस्यास्ति वर्णी । राम इव परशुरामतुल्यः ॥
बाहुबली । उरुबली । इत्यत्र "बाहु." [ ६६ ] इत्यादिनेन् ॥ मन्नन्त । वर्मी।मान्त । यामिनी ॥ अब्जादि । अब्जिनी । पङ्कजिनी । इत्यत्र "मन्म०" [६७ ] इत्यादिनेन् ॥
हस्तिनि । दन्तिनम् । करिणम् । अत्र "हस्त." [६८] इत्यादिनेन् ॥ वर्णी । इत्यत्र “वर्णातू०' [६९ ] इत्यादिनन् । पुष्करिणीम् । तरङ्गिणी । इत्यत्र “पुष्करादेशे" [ ७० ] इति-इन् । वैमुक्तमैत्रावरुणीययज्ञायज्ञीयदैवासुरगर्दभाण्डान् । भयाविजास्तहि सगर्दभाण्डीयेषेत्वकं घोषदकं जगुर्न ॥९४ ॥
९४. तर्हि तस्मिन् रणकाले भयाहिजा न जगुर्न पेठुः । कान् । विमुक्तशब्दोत्राध्यायेनुवाके वास्ति वैमुक्तस्तथा मैत्रावरुणशब्दोत्रास्ति
१ ए रिणा नु. २ ए पाड्जिनी. १ए जाति । मन्दाभसा. २ सीन्मत्ते यई'. ३ ए नि नु. ४ ए यस्त. ५ ए °ब्जाति । अं. सी ब्जानि । अं. ६ सीणी । त. ७ ए वास्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org