________________
[ है. ७.१.६९.] अष्टादशः सर्गः।
४२५ ___ १४. अमात्यैः स (त्यैरेष?) आन्नः प्रतिपेद आश्रितः । कीदृक्सन। हृदयतायुगमात्येष्वनुरागवान् । यतः किंभूतैः । सौहृदय्यघना गाढानुरागसान्द्रा ये सत्पुरुषत्वभ्रार्जिनः सत्पुरुषत्वेन साधुपुरुषस्य भावेन कर्मणा वा स्वाम्यद्रोहसुबुद्ध्यादिना भ्राजिष्णवस्तैः । यथा श्रोत्रियस्य भावः कर्म वा श्रौत्रं तदस्यास्ति श्रौत्रवान्यः पुरुषताभृत्पुरुषो वैदिकद्विज इत्यर्थः । वेदपाठाद्यर्थमाश्रीयते । कैः । श्रोत्रियत्वं छान्दसत्वं दयितं प्रियं येषां तैर्वेदार्थिभिर्द्विजैरित्यर्थः ॥ स्वागता छन्दः ॥
आचार्यताश्रोत्रियताप्तसुप्रख्यत्वो नयाचार्यकभागमात्यः । द्विपद्यशश्चौरकधौर्तिकाचार्यत्वं दधानं तमथेत्युवाच ॥ १५ ॥
१५. अथामात्य आगतामात्येषु मुंख्यो मन्त्री तमान्नमिति वक्ष्यमाणमुवाच । कीटक्सन् । आचार्यतया नीतिशास्त्रादिसर्वशास्त्रव्याख्यातृत्वेन यद्वोपचारान्मत्रिषु मुख्यतया श्रोत्रियतया च वैदिकद्विजतथा चाप्तं प्राप्तं सुप्रैख्यत्वं शोभना विख्यातिर्येन स तथात एव नयाचार्यकभाग्न्यायस्य सम्यक्प्रतिपादयितेत्यर्थः। कीदृशं सन्तं तम्। द्विपतः कुमारपालस्य यद्यशस्तस्य ये चौरकधौर्तिके द्विपत्पराभूत्यापहरणवञ्चने इत्यर्थः । तयोपिये यदाचार्यत्वमतिनैपुणं तदधानं युद्धायोद्यतमित्यर्थः ॥ उपजातिः ॥
खाम्यायुक्तानी चौरतां वेत्त्वचौरत्वं वा शैष्योपाध्यायिकां वाथ कुर्यात् ।
१ ए नवाचा. २ सी चौरिक. ३ ए नां चोर'
१ए °दस्यघ. २ ए जिताः स. ३ ए वा श्रोत्रं. ४ ए बी स्ति श्रोत्र'. ५ वी न्दसं द. ६ ए मुखो म. ७ ए णवा. ८ सी यत्वत. ९ ए प्रमुख्य . १० सी पुण्यं त. ११ बी जाति । स्वा. सी जातिच्छन्द । स्वा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org