________________
[ है. ७.१.६४.] अष्टादशः सर्गः ।
४२३ श्वापलान्निष्क्रान्तो निष्कापेयो युद्धे स्थिरचित्त इत्यर्थः । अत एवं वीरहृत्स्तेयकारी शूराणां हृदयावर्जकस्तथा तदातिरौद्रत्वाद्रक्षोज्ञातेयं राक्षसखजनतां कालरात्रेः कृष्णचतुर्दशीरात्रेििततां मृत्योर्शातित्वं च प्रेप्सुः ॥ वैश्वदेवी छन्दः ॥ कपितावतामिव कपित्वमश्वेताश्चवतां नु शावमिव शावतावताम् । युवतेव यौवनवतामहंकृतिर्ददृशेस्य सौष्ठवयुवत्वशालिनः ॥११॥
११. स्पष्टम् । किं त्वाश्ववतामश्वत्वान्वितानामश्वानाम् । शावमिव वाल्यमिव । अस्यान्नस्य सौष्टवयुवत्वशालिनः सौष्ठवेनातिशयेन यावत्वं तारुण्यं तेन शोभमानस्य ॥ नन्दिनी छन्दः ॥ निःशावत्वाश्वत्वभाक्सुरद्विउँनेत्रारुणिमा क्रुधास्य रेजे । चातुहायनपञ्चहायनत्वनवहायनताभाजिनो नु मद्यात्॥१२॥ १२. अस्यान्नस्य क्रुधा नेत्रारुणिमा रेजे । मद्यान्नु यथा सुरातो नेत्रारुणिमा राजते । किंभूतात् । चातुर्हायनपञ्चहायनत्वेनवहायनताभाजिनश्चतुर्वार्पिका[त्पञ्चवार्षिका?]नववार्षिकाद्वातिजातादित्यर्थः । निःशावत्वाश्वत्वभाक्सुरद्विवन्निःशावत्वं बालत्वान्निष्क्रान्तं यदश्वत्वमश्वजातिनिःशावत्वाश्वत्वं तरुणाश्वतेत्यर्थः । तद्भजते यः सुरद्विङ्केशिदानवस्तस्य यथा विष्णु वैरिणं प्रति क्रुधा नेत्रारुणिमा रेजे ।
१ ए श्वव. २ बी शाम'. ३ सी नः ॥ ११ ॥ सौष्ठवे'. ४ बी "डनेत्रा.
१ वी लान्नि:क्रान्तो. २ सी व च वी. ३ बी सी रहस्तेय'. ४ बी री सूरा. ५ वी सी राने कृ. ६ बी प्रेष्टुः । वै. ७ ए किं त्वश्व'. ८ ए 'नत्वप. ९ ए त्वव. १० ए डुन्निशा. ११ सी द्विवलत्वं. १२ वी वानिःकान्तं. १३ बी तिर्निशा. १४ ए केशदा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org