________________
[है० ७.१.५१.] सप्तदशः सर्गः।
४१३ आर्षभ्यः । औपानह्य । इत्यत्र "ऋषभ०" [ ४६ ] इत्यादिना न्यः ॥ छादिषेय । बालेय । इत्यत्र “छदि०" [ ४७ ] इत्यादिनैयण ॥ इष्टंकौषैः प(पा?)रिखेयप्राकारीयैर्यथा भुवः । पारिखेयप्राकारीयाः कान्ताः कातैः(न्तैः) सरोयुनक् ॥१३४॥
१३४. स्मरः कान्ताः कान्तैः सहायुनक् संयोजितवान् । यथा कश्चिद्वर्धकिरिष्टको (कौ)धैः सह भुवः परिखाप्राकारनिष्पत्तये युनक्ति । यतः कीदृशीः । परिखा प्राकारश्वासु स्यात्पारिखेयप्राकारीयाः । किंभूतैः । परिखा प्राकारश्चैषां स्याद्वहुत्वात्पारिखेयप्राकारीयास्तैः ॥ पारिखेयैरिष्टकोधैः । अत्र “परिखास्य स्यात्" [ ४८ ] इत्येयण् ॥ पारिखेया भुवः । अत्र "अत्र च" [ ४९] इत्येयण् ॥ प्राकारीयैः । प्राकारीयाः । अत्र "तद्" [५० ] इति यथाविहितमीयः ॥
आचरन्कामवत्कामः क्षत्रवत्प्रहरंस्तथा । तृणवन्मानिनीबूंन्वन्भृत्यवत्सेवितो न कैः ॥ १३५ ॥ १३५. कामो भृत्यवद्धृत्यैरिव कैर्न सेवितः । कीदृक्सन् । कामवत्कामाई यथा स्यादेवमाचरन् । त्रैलोक्येनापि स्वशासनं मूर्ध्नि वाहयन्नित्यर्थः । तथा क्षत्रवत्क्षत्रिय इव प्रहरन्नत एव मानिनीस्तृणवद्धन्वन्मानास्पातयन्नित्यर्थः । योपि क्षत्रियः प्रहरंस्तृणानीव मानिनो धूनोति स भृत्यैरिव कैन सेव्यते ॥
१ बी सी ष्टकोधैः. २ बी रिपेय'. सी °रिषय'. ३ बी यप्रका. ४ सी कातै स.
१ बी भ्यः । उपा. २ ए दिनेय'. ३ बी सी दृशी । प. ४ सी रिपेय'. ५ बी रिपेयिरि'. ६ बीष्टकोघैः. ७ ए कामर्हि य. ८ ए लोकोना. ९ ए°शानं. १० ए वत्क्षित्रयप्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org