SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ द्याश्रयमहाकाव्य | कुमारपालः] धन्या गण्यान्नेवातुल्यं हृद्यपथ्यं न मध्वधात् । जिज्ञासुः प्रेयसो भावं मधुवश्यस्य काचन ।। ११४ ॥ ११४. काचन मधु मद्यं नाधान्नापिबत् । कीदृग् । हृद्यपथ्यं हृद्यं हृदयस्य प्रियमपि पथ्यं रोगोपशमकमपि तथातुल्यं पेयवस्तुषु मध्ये. त्युत्कृष्टमपि । यतः कीदृशी । मधुवश्यस्य मत्तस्य प्रेयसो भावमनु. रागविषयमभिप्राय जिज्ञासुः । यथा धन्या धनं लब्ध्री वेश्या गण्या च गणं पुरुषसमूहं लब्ध्री कुलटा चान्ना चान्नं धान्यं लब्ध्री दासी च पुरुषम्य भावं जिज्ञासुः सती मधु न पिबति । अमूल्यपद्यकस्तूरीलेखां नु लुलितालकैः । अतिजन्यवयस्यास्ये चक्रे हाला मृगीदृशाम् ॥ ११५ ॥ ११५. हाला सुरा मृगीदृशामास्ये मुखेषु लुलितालकैर्मत्ततावशेनेतस्ततो लुंठितैश्चूर्णकुन्तलैः कृत्वा चक्रे । काम् । अमूल्या मूल्यं विना सुधिकयैव(?) संपन्नेत्यर्थः। तथा पदमस्यां दृश्यं पद्या नातिद्रवा नातिशुष्केत्यर्थः । या कस्तूरी तस्या लेखी नु मण्डनविच्छित्तिमिव । अत एव कीदृग् हाला । अतिजन्यवयस्या जनीं 'वधूं वहन्ति जन्या जामातुः स्निग्धा वयस्याः सख्यो द्वन्दे ता अतिक्रान्ता तत्तुल्येत्यर्थः । जामातृवयस्याः स्वसख्योपि हि वधूमुखेषु कस्तूरीलेखां कुर्वन्ति ।। १ सी धन्यग. २ ए थ्यं मम . ३ बी न व. ४ बी खां तु लु. १ ए कापि म°, २ सी यम'. ३ सी ल्यं प्रेय. ४ बी प्राय जि. ५ बी नं वे. ६ ए चान्न धा. ७ ए भाव जि. ८ बी मुख्येपु. ९सी "खेप्युललि'. १० ए सी लुचित'. ११ ए ना मुधि. १२ सी मस्य दृ. १३ ए सी तस्यां ले. १४ बी खां नु म. १५ ए सी वधू व१६ सी "ता तुलने. १७ सी राति . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy