SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ध्याश्रयमहाकाव्ये [कर्णराजः] ग्राहाणामप्यमारिं स धान्यास्रावो धनास्रवः । प्रावर्तयद्धर्मनयो हर्षसंस्रावलोचनः ॥ ३४ ॥ ३४. स कर्णो ग्राहाणामपि न केवलं स्थलचराणां जलचराणामपि मत्स्यादीनामप्यमारिं प्रावर्तयत् । कीहक्सन् । हर्षेण पुत्रजन्मोत्थानन्देन संस्रावे जलं क्षरन्ती लोचने यस्य सः। तथा धर्मनयो धर्मस्य नायकोतिधार्मिक इत्यर्थः । अत एव धान्यास्रावो मासिकादिषु धान्यानां दाता । तथा धनोस्रवो द्रव्यदाता च ॥ अवहारालयागाधः सोवसायोपि सागसाम् । हर्षा|संस्रवोत्तानदृशो गुप्तिजुषोमुचत् ॥ ३५ ॥ ३५. अवहाराणां जलचराणामालयोब्धिस्तद्वद्गाधो गम्भीरः स कर्णो गुप्तिजुषः काराक्षिप्तानरानमुचत् । कीदृक् । सागसामपराधिनामवसायोपि क्षयकारोपि । कीदृशान् । अस्माकमधुना मोक्षो भावीति हर्षाश्रूणां संस्रवाः क्षरित्र्य उत्ताना आगामिमोचकनरदिदक्षयो/भूता दृशो येषां तान् ॥ आश्वासाम्लायहरिणीप्रमोदाकर्णितं नृपः। निरन्तरायमभयं व्याधभूष्वप्यघोषयत् ॥ ३६ ॥ ३६. नृपः कर्णो व्याधभूष्वप्याखेटकस्थानेष्वपीत्यर्थः । अभयं मरणभयाभावमघोषयत् । कीदृशम् । औश्वासाः स्वाभयश्रवणादुज्जीव १ ए सी न्याम्रावो. २ ए °संश्राव. ३ ए बी संश्रवो. ४ ए शो मुक्ति'. १ एमपि मा. बी °ममा. २ ए संश्रावे. ३ बी को धा. ४ ए न्याश्रावो. ५ ए नाश्रवो. ६ बी व्यस्य दा. ७ सीताxxx तथागाधो. ८ बी संश्रवाः. सी संधवाः. ९ ए सी डी योर्द्व भू. १० बी ध्वप्यरण्येष्वपी. ११ ए दृशा । आस्वासाः. १२ सी आस्वासा स्वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy