SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३७० व्याश्रयमहाकाव्ये [ कुमारपालः] भिप्रायेणानादरेण शिरसि देयैरपि कार्यैरपि वा विशिष्टरचनारहितैरपीत्यर्थः । परं नैत्यवैयुष्टवन्नित्यं सदा व्युष्टे प्रभाते च देयैरिव कारिव वा नैत्यवैयुष्टा ह्यवतंसाः प्रायो विक्रयार्थत्वेनादरेण दीयन्ते क्रियन्ते चेत्यादरेण देयैरिव कार्यैरिव वा विशिष्टरचनैरिवेत्यर्थः । प्रियहस्त्यत्वेन सर्वसपत्नीषु मध्ये सौभाग्यातिशयस्य ख्यापकत्वात्तेषाम् । यद्वान्या स्त्री कार्णवेष्टकिकाननापि कुण्डलशोभमानवापि सती प्रियहस्त्याम्बुजोत्तंसैरेवं बभौ । किंभूतैः । याथाकथाचैरपि कार्णवेष्टकिकाननश्रीविशेषालोकनाक्षिप्तचित्तत्वात्प्रियस्य विसंस्थुलेरचनैरपि नैत्यवैयुष्टवद्विशिष्टरचनैरिव कुण्डलयोः सतोरपि प्रियहस्त्यत्वादम्बुजोत्तमैरेवाभादित्यर्थः॥ वैयुष्ट । नैत्य । इत्यत्र "ट्युष्टादिष्वण्” [ ९९ ] इत्यण ॥ याथाकथाचैः । अत्र “यथा." [१०० ] इत्यादिना णः ॥ हस्त्य । इत्यत्र "तेन." [ १०१ ] इत्यादिना यः ॥ कार्णवेष्टकिक । इत्यत्र “शोभमाने" [ १०२ ] इतीकण् ॥ असमर्थनन्समासोप्यस्मिन्विषये भवति । अकार्णवेष्टकिक ॥ एका वेष्यं पतिं स्नानस्पष्टवेश्यानखत्रणम् । अकर्मण्येति जल्पन्ती कर्मण्या कमलैरहन् ॥ ६॥ ... १ बी °ण्या कामलेर. - १ बी येना. २ ए °पि वा. ३ ए त वा. ४ ए त्यवेयु. ५ सी 'न्ते चैत्या. ६ बी प. ७ सी नीम. ८ वी कानाना'. ९ सी व संब. १०बी तैः । यथा . ११ सी विषयालो'. १२ सी लस्यवच'. १३ ए सी प्रिय. १४ ए सी हस्त । ६. १५ एनन्दामा, १६ ए °किकाः। ए, सी किका । ए. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy