________________
[ है० ६.४.८८.] सप्तदशः सर्गः।
नदी यौजनिकी क्रौशाद्यौजनाच शतिक्यसौ ।
आत्मतुल्यतयेवोत्का सैन्यान्सस्वञ्ज ऊर्मिभिः ॥५१॥ ५१. यौजनिकी तीर्थत्वादनेकपद्माद्यद्भुतवस्तुनिधित्वाच्च योजनादभिमुखगमनमर्हन्ती तथा क्रौशाद्यौजनाच्च शतिकी क्रोशशताद्योजनशताच्चाभिगमनमर्हन्ती नदी सैन्यानूमिभिः सस्वजे । उत्प्रेक्ष्यते । आत्मतुल्यतया स्वसादृश्येनोत्केवोत्कण्ठितेव । नद्या सह तुल्यता च सैन्यानी यौजनिकीत्यादिनदीविशेषणानां लिङ्गव्यत्यये सैन्यानामपि विशेषणत्वेन शब्दसाम्यात् । तथा हि योजनं क्रोशशतं योजनशतं च दिग्विजयाद्यर्थं यान्ति ये तान्यौजनिकान क्रौशशतिकान्यौजनशतिकान् । या हि रूपादिगुणोत्कर्षेण योजनिक्यादिः स्यात्सानुरूपं पति भुजाभिराश्लिष्यति ॥
क्रौशशतिकी । यौजनशतिकी । यौजनिकी । इत्यत्र "क्रोश." [८६] इत्या. दिना-इकण् ॥
आत्मतुल्यतयेतिज्ञापितेषु । क्रौशशतिकान् । यौजनशतिकान् । यौजनिकान् । इत्येतेषु “तद्यात्येभ्यः" [ ८७ ] इतीकण् ।
श्रान्ताञ्जहसुरश्रान्तास्ते पान्थाः पथिकानिव ।
युवानो वारिपथिका जाङ्गलपथिकानिव ॥ ५२ ॥ ५२. अश्रान्ता जलकेल्याखिन्नास्ते जले क्रीडन्तो युवानस्तरुणा१ ए सी की क्रोशा. २सी शायोज. ३ एतयोथोत्का. ४ ए 'भिः । योज'. ५ ए वानौ वा.
१ए शायोज'. २ ए प्रेक्षते. ३ ए "कते'. ४ ए °नां योज. ५ बी त्ययसै'. ६ सी था यो'. ७ ए तान्योज'. ८ ए न् क्रोश'. ९ए "कान्योज'. १० ए निकादिः. ११ बी तिं भुंजा. १२ बी की । योज'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org