________________
३४६ ध्याश्रयमहाकाव्ये
[ कुमारपालः] पाक्षिक । मासिक । मार्गिकैः । अत्र “पक्षि०" [३१] इत्यादिना-इकण् ॥ अर्थग्रहणात्तत्पर्यायेभ्यो विशेषेभ्यश्च स्यात् । खागिकः । मैनिकः । सौकरिकः ॥ पारिपन्थिकः । अत्र “परि०" [ ३२ ] इत्यादिनेकण् ॥
पत्या द्वैगुणिकेनेवान्या पारिपथिकी वजम् ।
दत्त्वाल्पां प्रार्थ्यतानल्पां वृद्धि गृह्णाति लोभ्यहो ॥२१॥ २१. पारिपथिकी पन्थानं वर्जयित्वा व्याप्य वा तिष्ठन्त्यन्या पत्यानल्पां महतीं सज प्रार्थ्यत । किं कृत्वा । अल्पां लध्वी स्रजं दत्त्वा द्विगुणं गृह्णाति द्वैगुणिकस्तेन यथाल्पं दत्त्वाधमो बहु याच्यते । युक्तं चैतत् । यस्माल्लोभी वृद्धि कलान्तरं गृह्णाति । अहो इत्यामन्त्रणे ॥ पारिपथिकी । इत्यत्र “परिपथात्” [ ३३ ] इतीकण ॥ द्वैगुणिकेन । इत्यत्र “अवृद्धे' [३४] इत्यादिनेकण् ॥ अवृद्धेरिति किम् । वृद्धिं गृह्णातीति वाक्यमेव ॥
दशैकादशिकी नास्मि दशैकादशिका तु सा । कुसीदिकेति जल्पन्ती पत्ये पुष्पाणि काप्यदात् ॥ २२॥ २२. कापि पत्ये पुष्पाण्यदात् । कीदृक्सती। जल्पन्ती क्षणमियमीया करोत्विति प्राक्पुष्पाण्यनाददानं शठं पतिं वदन्तीत्यर्थः । कथमित्याह। कुसीदं वृद्धिस्तदर्थं द्रव्यमपि कुसीदं तद्गृह्णाति यस्तत्संबोधनं हे कुसीदिक त्वं हि स्वयं कलान्तराजीवी ततो मामप्यात्मसदृशीमाशङ्कय त्वं मत्तः पुष्पाणि नादत्से तत्त्वयुक्तमेवेत्यर्थः । यतोस्म्यहं न दशैकादशि
१बी प्रार्थिता.
१ सी णात्प?. २ बी सौरि'. ३ बी लध्वीश्रजं. ४ बी सी मणे व. ५ ए वृद्धिक. ६ ए वृद्धिर् . ७ ए अत्रवृ. ८ सी ति वाक्पु. ९ए त गृह्णा". १० ए शङ्का त्वं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org