________________
२९६ व्याश्रयमहाकाव्ये
[कुमारपालः] वान्प्रादृषेण्यो न्वथ हैमनो नु वातोत्र सिंहाजिनरोमकम्पी । सैंहाजिनं प्रावरणं वसानैः सेव्यो रतान्ते शबराङ्गनौधैः॥५१॥
५१. अबार्बुदे सैंहाजिनं सिंहचर्मण इदं प्रावरणं वस्त्रं वसानैः परिदधानैः शबराङ्गनौधै रतान्ते वातो वान सेव्यते यतः प्रावृषेण्यो न्वथ हैमनो नु गिरेरस्य जलबहुलत्वेन तरुच्छायाबहुलत्वेन च वायोः सदा शीतत्वाज्ज्ञायते प्रावृषि भव इवें हेमन्ते भव इव वा । तथा सिंहाजिनरोमकम्पी सिंहाजिने भवानि रोमाणि कम्पयति । एतेन मार्दवोक्तिः ॥ न माथुरौत्सं धनपुण्यमश्वत्थामा इहादुष्करदुर्लभार्थे । सुसंभवादुष्क्रयपुण्यकेश्वत्थाम्नोपरे वा ऋषयः स्मरन्ति ॥ ५२ ॥
५२. इहार्बुदे वर्तमाना अश्वत्थामा अश्वत्थाम्नो द्रोणाचार्यपुत्रस्य महर्षेः संबन्धिन ऋषयोश्वत्थानोश्वत्थामसंबन्धिन ऋषिसमूहादपरे वा ऋषयो द्विजा न स्मरन्ति । किमित्याह । मथुरायां यागकरणादिना कृतं प्रतिग्रहादिना लब्धं वा माथुरं तथोत्सदेशे तीर्थस्नानपिण्डप्रदानादिरूपमूल्येन क्रीतं रोगाद्युपद्रवाभावेन संभूतं वौत्सं द्वन्द्वे माथुरौत्सं धनपुण्यं धनं मुनिप्रायोग्यं धान्यगवादि पुण्यं तीर्थस्नानपिण्डप्रदानाद्युद्भवो धर्मो द्वन्द्वे तन्माथुरं धनमौत्सं पुण्यं चेत्यर्थः । यतः । कीदृशीह। दुष्करश्चासौ दुर्लभश्च दुष्करदुर्लभो न तथादुष्करदुर्लभोर्थो द्रव्यं यत्र तस्मिन्ननेकवस्तूनामाकरत्वाददुष्करद्रव्ये वास्तव्ये श्व
१ ए धेणो न्व. २ ए ङ्गनोधैः.
१सी न वा. २ ए सी त्वाजाय. ३ ए सी व वा. ४ ए "म्पयिता । ए°. ५ सी यता । ए'. ६ सी त्थाम्नो अ. ७ सी स्य:. ८ बी गकार. ९ सीना वा ल'. १० सी धान्यं ग. ११ ए 'थुरध, १२ बी यत् त. १३ बी 'माकारत्वादु'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org