SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ [ है. ६.३.५५.] षोडशः सर्गः। २८३ न काच्छके सैन्धवका विमर्दे न काच्छकाः सैन्धवकेप्यकुप्यन् । तैः सैन्धवैर्वाजिभिरुक्षभिश्च काच्चैस्तदाज्ञायमिता व्रजन्तः ॥३१॥ ____३१. सैन्धवकाः सिन्धुनराः काच्छके कच्छदेशवासिनरसंबन्धिनि विमर्दै बाहुल्यात्संघर्षे सति नाकुप्यन् । किंभूताः सन्तः । व्रजन्तः । कैः कृत्वा । तैः सुजात्यत्वादिना प्रसिद्धैः सैन्धवैः सिन्धुदेशे जातैर्वाजिभिः । एतेन सिन्धौ सुजात्याः प्रभूताश्चाश्वाः स्युरित्युक्तम् । तथा काच्छकाः कच्छदेशनराः सैन्धवकेपि सिन्धुदेशनरसंबन्धिन्यपि विमर्दे सति नाकुप्यन् । किंभूताः सन्तः । व्रजन्तः । कैः कृत्वा । तैः सुजात्यत्वादिना प्रसिद्धैः काच्छैः कच्छदेशभवैरुक्षभिर्वृषभैः । एतेन कच्छेषु सुजात्याः प्रभूताश्चोक्षाणः स्युरित्युक्तम् । यतस्तदाज्ञायमिताः कुमारपालाज्ञानियन्त्रिताः ॥ अपूर्यतैक्ष्वाकशृगालगीयाश्चत्थिकीयैः कटवर्तकीयैः । दाक्षिहूदीयैः सहदाक्षिकन्थीयायामुखीयैर्नृपतेरनीकम् ॥ ३२॥ ___३२. नृपतेः कुमारपालस्यानीकमपूर्यत । कैः कैरित्याह । इक्ष्वाकुपु शृगालगत आश्वथिके कटवर्तके च देशेषु दाक्षिहदे च वाहीकग्रामे भवैस्तथा सहदाक्षिकन्थीया दाक्षिकन्थायां वाहीकग्रामे भवैभेटैः सहिता ये आयामुखीया आयामुखे वाहीकग्रामे भवास्तैश्च महाभटैः॥ १ ए के सेन्ध. २ ए काः सेन्ध'. ३ ए °न् । सै. ४ सी क्षकैश्च केच्छै'. ५ ए यतेवा. १ ए वाजिसि. २ सी नि बा. ३ ए "हुबल्या. ४ बी देशजा. ५ सी श्चाश्वोक्षाणः रयु. ६ वी देशे न. ७ सी केषु सि. ८ सी आयोमु. ९ सी आयोमु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy