________________
[ है० ६.३.४९.] षोडशः सर्गः।
२८१ एतेन ज्ञानितोक्तिः । तथाघारण्यकरीपदावैः पापेष्वेव वन्यच्छगणेचूर्णेषु वनवह्नितुल्यैर्महातपस्वितया दग्धपापैरित्यर्थः । अनेन क्रियापरतोक्तिः । नन्वेवंविधैरप्यसौ किमित्याशीर्भिरानन्द्यत इत्याह । यतो द्विषो धर्मान्तराया आन्तराः कामादयो बाह्याश्च दैत्यादयोरयस्त एवासारत्वादारण्यकगोमयानि तेष्वग्निर्विजिगीपुनृप इत्यर्थः । अथ च य आरण्यकगोमयानामग्निः स्यात्स देवतात्वान्मुनीन्द्रराशिषानन्द्यत इत्युक्तिलेशः॥ बालाभिरारण्यवशाभिरारंण्यिका करेणुर्नु भृशं प्रगल्भो । यौगंधरैः कौरवकैश्च सैन्यैः सेना मिलद्भिः पथि तस्य रेजे ॥२९॥ ___२९. तस्य राज्ञः प्रगल्भा प्रौढा सेना पथि मिलदियौगंधरैः कौरवकैश्च युगंधरेषु कुरुषु च देशेषु भवैः सैन्यैः कृत्वा भृशमत्यर्थ रेजे । यथारेण्यिका वन्या प्रगल्भा करेणुर्हस्तिनी बालाभिः शिशुभिरारण्यवशाभिर्वन्यहस्तिनीभिः कृत्वा भृशं राजते । साल्वाः सयौगंधरकाः पदाताः सकौरवाश्वा अभवन्मुदेस्य । द्राक्साल्वकैः साल्वकगोयवागूवृत्त्या मनुष्यैः परिवार्यमाणाः ३०
३०. सकौरवाश्वाः कुरुदेशजैरश्चैर्युक्ताः सयौगंधरको युगंधरदेशसंबन्धिपदातियुक्ताः साल्वाः पदाताः साल्वदेशस्य पत्तयोस्य राज्ञो मुदेभवन् । यतः साल्वकैः साल्वदेशे भवैर्मनुष्यैर्गोपालैः पाचकैश्च नरैर्द्राक्परिवार्यमाणाः । किंभूतैः । उपलक्षितैः । कया। साल्व
१ सी रण्यका. २ ए °ल्भा । योग'. ३ सी सयोग .
१ ए पदवौ पा. २ ए °णतणे. ३ ए या विश्वपा. सी या वन्यपा. ४ ए रत्वोक्तिः. ५ ए या अन्त. ६ ए बी पुनृप. ७ए °द्भिर्योग. ८ सी पु दे. ९ ए सी रण्यका. १० ए °स्तिभिः. ११ सी का यौगं'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org