________________
[ है. ६.३.४९.] षोडशः सर्गः।
२७९ दाकैः । अत्र “बहु०" [४५] इत्यादिनाकञ् ॥ बहुवचनमपवादविपयेपि प्रापणार्थम् । त्रैगर्तकैः । अत्र गर्वोत्तरपदलक्षण ईयो बाध्यते ॥ - धौमकैः । स्थालक । इत्यत्र “धूमादेः" [ ४६ ] इत्यकञ् ॥ चौलुक्यमन्वीयुरथेरयन्तस्तुरङ्गमान्कौलकसादिवर्याः । सामुद्रिका नाव इवाशु सामुद्रकाः कशादण्डभृतः समन्तात् ॥२५॥
२५. अथ कौलकसादिवर्याः कूलं नाम सौवीरग्रामस्तत्र भवा अश्ववारश्रेष्ठाः समन्ताच्चौलुक्यमन्वीयुरनुजग्मुः। किंभूताः सन्तः । कशादण्डभृतः कशायष्टिधारिणोत एवाशु तुरङ्गमानीरयन्तः कशाघातेन प्रेरयन्तः । यथा कशादण्डभृतः कशाकारारित्रदण्डधारिणः सामुद्रकाः समुद्रे भवा जाताः समुद्रकर्मणि कुशला वा नराः सामुद्रिकाः समुद्रे भवा नावस्तरीः समन्तादाश्वरित्रैः प्रेरयन्ति ॥ . कौलक । इत्यत्र “सौवीरेषु कूलात्" [ ४७ ] इत्यकञ् ॥ सामुद्रका नराः । सामुद्रिका नावः । अत्र “समुद्रानुनावोः' [ ४८ ] इत्यक ॥ न तस्य धीनागरकस्य मायितया चरैर्नागरकैः परेषाम् । काण्डाग्नकैः पैप्पलकच्छकैश्चे(श्चै)न्दुवककैवा(नौ) ह्यत यानहेतुः
॥२६॥ २६. काण्डाग्नौ पिप्पलकच्छ इन्दुवके च देशेषु भवैस्तेभ्य आगतैर्वा परेषां चरैर्द्विषां हेरिकैस्तस्य राज्ञो यानहेतुर्यात्रायाः कारणं नौह्यत न ज्ञात इत्यर्थः। किंभूतैः । मायितया नागरकैर्नगरभव
१ सी युरिवेर'. २ ए सी कैवोह्य.
पां
१ बी सी रल'. २ ए सी स्तरी स. ३ ए °मुद्रका. ४ सी हेरकै . ५ सी णं नोय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org