SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ६ ब्याश्रयमहाकाव्ये [कर्णराजः] गर्भविघ्नच्छिदेभूवन्भुव्यनानाय्यगोदुहः । संवाह्यानौ च याज्याभिर्यष्टव्यमृषयोयजन् ॥१०॥ १०. गर्भविघ्नच्छिदे गर्भापायच्छेदाय ऋषयो भुव्यनानाय्यगोदुहो नित्यगोदोहका अभूवन् । गोषु हि भुवि दुग्धासु विना विलीयन्त इति श्रुतिः । तथा संवाह्याख्याग्निभेदे याज्याभिर्दानऋग्भिः कृत्वा यष्टव्यं हव्यमृषयोयजंश्चाजुहवुः॥ करणीयेष्वहेयेष्वशेयैः शक्येष्टसिद्धिभिः। प्रशस्यं यत्यमारेभे यज्यैर्भज्यैः पुरोहितैः ॥११॥ ११. प्रशस्यं शसू हिंसायाम् । धातूनामनेकार्थत्वात्स्तुतावपि ते स्तुत्यं यद्वा प्रगतं शस्यं हिंसा यस्य॑ तत्प्रशस्यं यत्यं गर्भशान्तिकर्मविषयो यत्नः पुरोहितैरारेभे । यतः किंभूतैः । अहेयेषु धर्महेतुत्वेनात्याज्येषु करणीयेषु विघ्नच्छेदादिकर्मसु विषये शेयैर्जागरूकैस्तथा महामात्रिकत्वाच्छक्या शकिः स्वभावाद्धात्वन्तरार्थानुसंहित एव प्रयुज्यते ततः कर्तुं - शक्येष्टसिद्धियस्तैरत एव यज्यैः पूज्यैर्भज्यैः सेव्यैः॥ असह्यतक्यतप्योयं याज्यश्चत्यो विजन्यताम् । गर्भः क्षेमेण भाग्यैर्न इति दध्यौ गुरुस्तदा ॥ १२ ॥ १२. गुरू राजाचार्यस्तदा गर्भवृद्धिकाले दध्यौ । किमित्याह । अयं गर्भो नोस्माकं भाग्यैः पुण्यैः क्षेमेण विजन्यतामुत्पद्यताम् । कीदृक् । १ ए सी नामाय्य. २ ए शेयै श०. १ बी नविच्छेदे. २ ए सी डी °न् । सं'. ३ ए सी डी वात्सुता. ४ सी 'न सुत्यं. ५ बी यस्मात्तत्प्र. ६ ए °स्य त्वत्प्र. ७ ए ममु द्विष. ८ ए सी डी °च्छक्याः श'. ९ ए मुसंपहि. १० बी °संहंसित. ११ बी भज्य से. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy