SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ घ्याश्रयमहाकाव्ये षोडशः सर्गः । सवार्त्तिकैरष्टकसर्वतन्त्रैः सगौतमैरेत्य कुमारपालः । अथाभिषिक्तः कठताण्डिमुख्यैः पैतामहं राज्यमलंचकार ॥१॥ १. अथ कुमारपालः पैतामहं कुमारपालपिता हि त्रिभुवनपालो जयसिंहस्य भ्रातृजत्वात्पुत्रतुल्य इति जयसिंहः कुमारपालस्य पितामहस्तत्संबैन्धि राज्यमलंचकार । कीडक्सन् । कठताण्डिमुख्यैः कठेन प्रोक्तं वेदं ताण्ड्येन प्रोक्तं ब्राह्मणं च विदन्त्यधीयते वा ये तत्प्रभृतिभिः पुरोहितामात्याद्यैरेत्याभिषिक्तः कृतराज्याभिषेकः । किंभूतैः । सवातिकैर्वृत्तिरेव विनयादित्वादिकणि [ ७. २. १६९ ] वात्तिकं तेन सह सवार्तिकं सूत्रं विदन्त्यधीयो वा तैस्तथाष्टकसर्वतत्रैरष्टका अष्टकमष्टाध्यायमानं पाणिनीयं सूत्रं विदन्तोधीयाना वा ये सर्वतंत्राः सर्वतत्राणि सर्वदर्शनसिद्धान्तान्विदन्तोषीयाना वा तैस्तथा सगौतमैर्गोतमर्षिप्रोक्तवेदवित्सहितैः ॥ सवार्त्तिकैः । सर्वतन्त्रैः । अत्र “ससर्व०" [ १२७ ] इत्यादिनाणो लुप् ॥ अष्टक । अन्न “संख्या." [ १२८ ] इत्यादिनाणो लुप् ॥ गौतमैः । अत्र “प्रोक्तात्” [ १२९ ] इत्यणो लुप् ॥ वेद । कठ ॥ इन्ब्राह्मण । ताण्डि । इत्येतो “वेदेन्०” [ १३० ] इत्यादिना वेत्त्यधीत एतद्विषय एव प्रयुज्यते ॥ सर्गेस्मिन्नुपजातिश्छन्दः ॥ १ बी पालं पि°. २ सी वन्धरा'. ३ सी ताण्डेन. ४ बी काष्ट'. ५ ए तत्रा. ६ वी मैर्गोत'. ७ बी सी युज्यते. ८ ए पज्ञाति'. ९ वी सी तिच्छन्दः'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy