________________
व्याश्रयमहाकाव्ये [कर्णराजः] . ७. स कर्णस्तां देवीमपृणहोहदपूरणेनापोषयत् । कीहक्सन् । तां ब्रुवन् । कथमित्याह । त्वया नापत्राप्यं न लजनीयमिच्छया श्रद्धया कृत्वात्मा त्वया न दाभ्यो न वश्य इति । यथामावस्येन्दुममावास्यार्यमा पृणोति । अमावास्यायां हि रवेः सुखमणाख्यकिरणं लब्ध्वा चन्द्रो वर्धत इति प्रसिद्धिः ॥ उपभुक्तैः उपभुक्तऋतुम् । अत्र “गत्यर्थः" [११] इत्यादिना वा क्तः कर्तरि॥
जैग्धे जग्धम् । अशिते अशितम् । सृप्ते सृप्तम् । आसिते आसितम् । पीते पीतम् । भुक्त उपभुक्तः उपभुक्तऋतुम् । अत्र "अद्यर्थाच्चाधारे" [१२] इत्याधारे तो वा॥
विदित्वा । त्रातुम् । ध्यायं ध्यायम् । अत्र "क्त्वा०" [१३] इत्यादिना क्त्वातुममो भावे झेयाः॥
भीम । भीष्म । इत्येतौ "भीम" [१४] इत्यादिनापादाने साधू ॥ वायु । तन्तु । इत्यत्र "संप्र." [१५] इत्यादिना संप्रदानापादानाभ्यामन्यत्रोणादयः॥
नन्दन नन्दकः । अत्र “अंसरूप०"[१६] इत्यादिनापवादविषय औत्सगिकः प्रत्ययो वा । असरूप इति किम् । ध्याण यो न स्यात् । कार्याणि ॥ प्राक् तेरिति किम् । प्रवर्धतेनया प्रवर्धनी । अनैट्रिपये न क्तिः । आशायते तनूक्रियते लाभादसावित्याशा । "उपसर्गादातः" [५.३.११० ] इत्यपिये न क्तिः ॥ कार्याणि । वाक्येन । इत्यत्रं "ऋवर्ण०" [१७] इत्यादिना ध्यण् ॥
१ ए सी ति xxxx प्रसि. २ डी पृणाति. ३ ए °क्तऋतम् ।. सी °क्तऋत् । अ०. डी क्तऋ०. ४ ए ना क्तः. ५ ए जग्धौ ज°. ६ सी डी म् । उ°. ७ ए °भुक्तक. ८ डी धार क्तो. ९ सी न्दक:. १० ए अस्वरू. ११ एर्गिकप्र. १२ ए अस्वरू. १३ ए 'नट विष . बी नटविष. १४ ए त्यद्विष. सी डी त्यङविष. १५ एत्र कर्ण'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org