SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ [ है. ६.१.१३४. पञ्चदशः सर्गः । २१७ वृकाः शस्त्रजीविसंघो "वृकाट्टेण्यण" [७. ३. ६४ ] इति टेण्यणि वाकेण्यः । लोहध्वजाः पूगाः । “पूगाद्" [७. ३. ६० ] इत्यादिना ज्ये लो(लौ)हध्वज्यः । कुण्डीदृशा वाहीकेषु शस्त्रजीविसंघो “वाहीकेषु०" [७. ३. ६३] इत्यादिना न्यटि कौण्डीदृश्यो द्वन्द्वे वृकलोहध्वजकुण्डीदृशाः । इत्यत्र टेण्यणादेः वङ्गाङ्गसुझकाः । अत्र च द्विस्वरलक्षणाणश्च "यादेस्तथा" [ १३२ ] इति लुप् ॥ सोमेशः संमुखं न्वेति राजा वा शीघ्र इत्यभूत् । . वादोङ्गवङ्गादाक्षीणां सहाङ्गवाङ्गदाक्षिभिः ॥ ३४॥ ३४. अचिरादेवपत्तनसमीपे राज्ञ आगमनादित्येवंविधो वाद उक्तिरभूत् । शिष्टं स्पष्टम् ॥ - अङ्गवङ्गादाक्षीणाम् आङ्गवाङ्गदाक्षिभिः । अत्र 'वान्येन"[ १३३ ] इति द्विस्व. रलक्षणस्याणो लुप्वा(वा) ॥ राजा गर्गकुलाद्वैदकुलं विदकुलादथ । ज्ञात्वा गार्यकुलं चेति दानं गच्छन्विवेक्यदात् ॥ ३५ ॥ ३५. इति पूर्वोक्तप्रकारेण यात्रार्थ गच्छन्सनाजा दानमदाद्गर्गकुलविदकुलयोरेव । किं कृत्वा । गर्गकुलाद्गार्यस्य गार्ययोर्वा कुलाद्वैदकुलं वैदस्य वैदयोर्वा कुलं ज्ञात्वाथ तथा विदकुलाद्गार्यकुलं च ज्ञात्वा । यतो विवेकी॥ गर्गकुलात् गार्यकुलम् । विदकुलात् वैदकुलम् । अत्र "द्वे(ये)केषु०" [१३४ ] इत्यादिना लुप्वा(वा) ॥ १ ए गाये चे. १ ए पूगः । पू. २ बी सी °ण्डीवृशा. ३ बी °ण्डीवृश्यो. सी डी. वृशो द. ४ बी °ण्डीवृशाः. ५ सी दृश्याः। इ. ६ सी च्छना. ७ बी न्स राजा. ८ सीजा वासम. ९ए गार्गस्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy