________________
24
विषयानुक्रमणिका। अन्यदा कुमारपालो निशीथ आखिरं श्रुत्वा परिहितनीलवासास्तत्परिज्ञानाय बहिर्जगाम । तरोरधो रुदतीं पतिपुत्ररहितां राजकृतधनापहारभीतां कांचिद्धनवती स्त्रियं दृष्ट्वा एष राजा न ग्रहीष्यति तव धनं पतिपुत्राभ्यां पयो दातुं स्थेया इति तां सान्त्वयित्वा वधोद्यमात्तां न्यवर्तयत् । गृहमागम्य चासूनोः परासोर्वित्तं न ग्राह्यमित्यमात्यान् न्यदिक्षत् । अपरेाः केदारहवें खसराजभग्नं चारमुखाच्छ्रुत्वा खसराज संतयं तदुद्धाराय सोमेशवेश्मनश्वोद्धाराय मन्त्रिणमादिदेश । आहेतैर्दत्ताशीर्वादोऽणहिलपुरे श्रीदेवपत्तनतले च पार्श्वचैत्ये अकारयत् । स्वप्ने शंभुनादिष्टः कुमारपालोऽणहिलपुरे कुमारपालेश्वराख्यायतनमकारयत् । अन्ते ऋषीणामाशीर्वचनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org