________________
[है ० ६.१.८०.] चतुर्दशः सर्गः।
२०१ काणेराम्बावक्रौर्यभाजं चुलुक्यो गुप्ताव:प्सीत्तं यशोवर्मभूपम् । तां काणेयाम्बाकाणदृष्टिं न्वकान्ति धारां नाटेयत्कीर्तिराश्वासयच्च
॥७३॥ ७३. चुलुक्यस्तं यशोवर्मभूपं गुप्तावक्षप्सीत् । यतः क्रौर्यभाज जयसिंहं प्रति द्रोहाभिप्रायेण क्षुद्रचित्ततां भजन्तम् । काणेराम्बावद्यथा काणेरस्य काणाया अपत्यस्याम्बा माता काणा क्रौर्यभाक् क्रौर्य क्षुद्रतामेकाक्षतया हीनाङ्गत्वं भजते तथा । चुलुक्यस्तां धारामाश्वासयच्चावन्तिदेशमवासयञ्चेत्यर्थः। की हक्सन् । नाटेयन्ती नट्यपत्यमिवाचरन्ती सकलेपि विश्वे नृत्यन्तीत्यर्थः । कीर्तिर्यस्य सः । किंभूतां धाराम् । अकान्ति नि:श्रीकां काणेयाम्बाकाणदृष्टिं नु काणेयाम्बायाः काणाया यासौ काणा दृष्टिस्तामिव ।। भ्रौवेय । इत्यत्र “भ्रुवो भ्रञ्च” [७६] इति-एयण ध्रुवादेशश्च ॥ काल्याणिनेयः । सौभागिनेयैः । अत्र "कल्याण्यादे०" [७७ ] इत्यादिनाएयण् इन्-चान्तादेशः ॥
कौलटिनेय अकौलटेयैः । अत्र “कुलटाया वा” [७८] इत्येयण् इन्-चान्तादेशः ॥
चाटकैरम् । चटका । इत्यत्र "चटकाद्" [७९] इत्यादिना गैरः स्त्रियां तु गैरस्य लुप् ॥
काणेर । काणेय । नाटेर । नाटेयत् । इत्यत्र "क्षुद्राभ्य एरण्वा" [ ८० ] इति वा-एरण् । वैश्वदेवी छन्दः ॥
१ ए वक्षेप्सी. २ बी सी दृष्टि न्व. ३ ए °यनु । चु.
१ ए बी वक्षेप्सी'. २ बी सी वाशय'. ३ ए नेयः । अ. ४ ए ल्याणादे'. ५ एशः । कोल'. ६ सी नेयः अं. ७ बी सी म् । चाट'. ८ सी बी न्दः । गोधा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org