________________
१८४
घ्याश्रयमहाकाव्ये
[जयसिंहः]
पृथिव्या इमामपत्यमपि वा । एवं यथासंभवमन्यत्राप्यर्था अभ्यूह्याः । अपार्थिवीं न्वत्युत्कृष्टत्वात्स्वर्गभवामिव । कीडक्सन् । औत्सौदपानावपि सदा सहचरावुत्सोदपानाख्यदेशयोर्भवौ जातौ वा । यद्वोत्सोदपानदेशराजयोरपत्ये अङ्गरक्षावपि वर्जिता त्यजनशील एकाकीत्यर्थः । यत आग्नेयरुग् निर्भीकतादिगुणैः कार्तिकेयसमः ॥
दैत्यः(त्य) । आदित्यः । आदित्यम् । याम्य ॥ पत्युत्तरपद । बार्हस्पत्यः ।। अणपवादे च । आदित्य्य । याम्यः । वानस्पत्यात् । इत्यत्र “अनिदमि." [१५] इत्यादिना ज्यः ॥ अनिदमीति कि । आदितीये ॥
बाहीक । अबाह्य । इत्यत्र "बहिषष्टीकण्च" [१६] इति टीकण ज्यश्च ॥ कालेयम् । आग्नेय । इत्यत्र “कलि०". [ १७ ] इत्यादिनैयण् ॥ पार्थिवाम् । अपार्थिवीम् । अत्र "पृथिव्या आज्' [१८] इति जाजौ ॥
औत्सौदपानौ । इत्यत्र "उत्सादेर' [ १९ ] इत्यन् ॥ दैवीं स सौवष्कयिवाष्कयाश्वत्थामोड(डु)लोमैरुपयुक्ततीर्थाम् । सिप्रां ययौ दैवमसिं दधानः श्रियं च दैव्यां महिमापि दैव्यम्
॥४२॥ ४२. स राजा सिप्रां ययौ । कीहक्सन् । दैवं देवैरधिष्ठितत्वाद्देवानामिममसिं दैव्यां देवसंबन्धिनीं श्रियं चाङ्गलक्ष्मी च दैव्यं महिमापि प्रभावमपि दधानः । किंभूतां सिमाम् । दैवी देवैरधिष्ठितत्वेन देवसंबन्धिनीम् । तथा सौवकयिवाष्कयाश्वत्थामोडुलोमैः सुवष्कयवष्कयाश्वत्थामोडुलोम्नामृषीणामपत्यैरुपयुक्ततीर्थी संयुक्तावताराम् ॥
१ ए सी °त्वात्सर्ग०. २ ए औत्सोद'. सी औसौद'. ३ ए द्वोत्सौद'. ४ सी स्पतः । अ. ५ सी °दे यः । आ. ६ ए °दित्य । या . बी दित्य्यः । या०. ७ ए त्यादिना. ८ ए °म् । अदि. ९ सीहीकः । अं. १० ए °वं दैवै. ११ एम् । देवीं. १२ ए सी कयवा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org