________________
१८१
है० ६.१.१२.] चतुर्दशः सर्गः । तत्तद्वितं कर्तृभिरात्मभर्तुः समेत्य वृद्धैर्युवभिः क्षणाद्वा। दुःस्थैरथावन्तिभटैः स वनोध्यारोह्यभीतै रणतूर्यवाद्यात् ॥ ३७॥
३७. अथावन्तिभटैर्मालवभटैर्युवभिर्वृद्धैर्वा क्षणात्समेत्य मिलित्वा स वप्रोध्यारोहि रक्षार्थमध्यारूढः । किंभूतैः सद्भिः । आत्मभर्तुतत्प्रसिद्धं विजयादिकं हितमनुकूलं कर्तृभिभक्तत्वात्साधु कुर्वद्भिस्तथा दुःस्थैर्वप्रखननादिनारिभिराक्रान्तत्वाहुर्दशैस्तथा रणतूर्यवाद्याद्रणतूर्याणां वाद्यं शत्रुभिर्वादनं तस्मादभीतैश्च शूरत्वादक्षुब्धैश्च ॥
तद्वितमित्यनेन "तद्धितोणादिः" [ 1 ] इति तद्वितसंज्ञा वृद्धरित्यनेन “पौत्रादि वृद्धम् " [२] इति वृद्धसंज्ञा युवमिरित्यनेन "वंश्य." [ ३-५ ] इत्यादिसूत्रेषुक्ता युवसंज्ञा दुःस्थैरित्यनेन “संज्ञा दुर्वा" [६-१०] इत्यादिसूत्रोक्ता दुसंज्ञा वाद्यादित्यनेन “वाद्यात्" [११] इति सूत्रं चासूचि ॥ ते प्रेरिताः पैङ्गलकाण्वजैह्रौंकातादिभिर्दारितकातयुक्तैः। त्रातुं पुरी धानपतींनु राष्ट्रपतीं ततः सौपगवाः प्रजहुः ॥ ३८ ॥
३८. ततोनन्तरं सौपगवा औपगवैर्भटभेदैर्युक्तास्तेवन्तिभटा राष्ट्रपती राष्ट्रपतेर्देशपतेर्यशोवर्मण इमां पुरीमुज्जयिनी त्रातुं प्रजहुः शत्रुभिः सह युयुधिरे । यतो धानपती नु धनपतेर्धनदस्येयं धानपत्यलका महपिकत्वादिना तत्तुल्याम् । किंभूताः सन्तः । प्रेरिताः । कैः पैङ्गलकाण्वाः पिङ्गलस्य काव्यस्यर्षेइछात्रा जैह्वाकाताश्च जिह्वाचपलस्य
१ सी पैगलाकात्वजै०. २ बी डी ङ्गलिका. ३ बी हाकांतादिदिभि'. ४ ए जहः । त.
१ ए °था दुस्थै . २ ए बी वंश इ. ३ ए °क्ता दुःसं. ४ ए सी पते. ५ ए ज्जयनीं. ६ ए जहुः श. ७ ए °ती भुवन'. ८ सीतेन धन'. ९ ए काव्य. १० बी सी डी काण्वस्य'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org