________________
[ है० ५.४.३५.] त्रयोदशः सर्गः ।
१५१ ८४. अथ नागः कनकचूड ऊचे । यथा । अहो महापुरुष त्वयि विषये मम शंसितुं वक्तुं कालः प्रस्तावस्तस्माद्यथा हुल्लडं प्रति गन्तुं नागानां समयोभूत्तथा शृणु स्म प्रकटमाकर्णय ॥
नागान्प्लावयितुं वेला जयस्येति विचिन्तयन् ।
प्रचेतोवरदृप्तोगात्पातालं हुल्लडः फणी ॥ ८५॥ ८५. हुल्लडः फणी पातालमगात् । कीडक्सन् । प्रचेतोवरदृप्तो वरुणदत्तप्लावनविषयप्रसाददर्पिष्टोत एव नागान्प्लावयितुं मम वेला जयस्य च नागपराभवस्य च वेलेति विचिन्तयन् ॥ शृणु स्म । इत्यत्र “अधीष्टौ" [ ३२ ] इति पञ्चमी ॥ कालः शंसितुम् । प्लावयितुं वेला । समयो गन्तुम् । अत्र "काल." [ ३३ ] इत्यादिना तुम् ॥ वावचनाद्यथाप्राप्तं च । वेला जयस्य ॥
ऊचुनर्नागास्तमेत्येति कालोयं यजयेद्भवान् ।
समयो यदवेन्नश्च न वेला यन्निमजयेत् ॥ ८६ ॥ ८६. स्पष्टः ॥ कालोयं यजयेगवान् । न वेला यन्निमजयेत् । समयो यदवेत् । इत्यत्र "सप्तमी यदि" [३४ ] इति सप्तमी ॥
त्वमेवाहश्च शक्तश्च भारो वाह्यस्त्वयैव नः । त्वमेवाज्ञापयेरमांस्तदादिश कृतं क्रुधा ॥ ८७ ॥ ८७. हे हुल्लड त्वमेवाहश्च शक्तश्चास्माकं भारवहन आज्ञापने च योग्यः समर्थश्च । तस्मान्नोस्माकं भारः कार्यप्राग्भारस्त्वयैव वाह्यस्त१ ए सी डी वाहंश्च.
न् । वे'. ३ डी
मेवाहंश्च. ४ ए सी
१ सी डी ति चि. २ बी वाहंश्च. ५ सी डी स्माकं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org